________________
३२
स्वोपज्ञरहस्यवृत्तिविभूषितं
तः सौ सः ।२।१४२॥ आ द्वेस्त्यदां सौ परे त: स् स्यात् । स्यः । स्या । स: । सा । त्यदाम् इत्येव, प्रियत्यत् ।।४०॥
अदसो दः सेस्तु डौ।२।१४३॥ त्यदां सौ परे अदसो द: स् स्यात्, सेस्तु डौ । असौ । असकौ । हे असौ ! । हे असकौ ! । त्यदाम् इत्येव, अत्यदाः ॥४१||
मोऽवर्णस्य ।२।११४५॥ अवर्णान्तस्य त्यदामदसो दो म् स्यात् । अमू नरौ स्त्रियौ कुले वा । अमूदृशः । अवर्णस्य इति किम् ? अद: कुलम् ।।४२।।
वाऽद्रौ ।२।११४६॥ अदसोऽद्रावन्ते सति दो म् वा स्यात् । अदमुयङ्, अमुव्यङ्, अमुमुयङ्, अदद्रयङ् ।।४३।।
मादुवर्णोऽनु ।२।१॥४७॥ अदसो मः परस्य वर्णस्य उवर्णः स्यात्, अनु पश्चात् कार्यान्तरेभ्यः । अमुम् । अमू । अमुमुयङ् । अनु इति किम् ? अमुष्मै । अमुष्मिन् ॥४४॥
प्रागिनात् ।२।१४८॥ अदसो म: परस्य वर्णस्येनादेशात् प्राक् उवर्णः स्यात् । अमुना । इनाद् इति किम् ? अमुया ।।४।।
बहुष्वेरी ।।१४९॥ बह्वर्थवृत्तेरदसो म: परस्य एत ई स्यात् । अमी । अमीषु । ए: इति किम् ? अमू: स्त्रियः । माद् इत्येव, अमुके ।।४६।।
धातोरिवर्णोवर्णस्येयु स्वरे प्रत्यये ।२।११५०॥ धातोरिवर्णोवर्णयोः स्वरादौ प्रत्यये परे यथासङ्ख्यमियुवौ स्याताम् । नियौ । लुवौ । अधीयते । लुलुवुः । प्रत्यय इति किम् ? न्यर्थः । ल्वर्थः । 'नयनम्, नायकः' इत्यादौ तु परत्वाद् गुण-वृद्धी ।।४७||
इणः ।२।११५१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org