SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । त्यदादेरिदमो द्वितीया-टौसि परेऽन्वादेशे एनत् स्यात्, अवृत्त्यन्ते । उद्दिष्टमिदमध्ययनम्, अथो एनदनुजानीत । अनेन रात्रिरधीता, अथो एनेनाहरप्यधीतम् । अनयो: शोभनं शीलम्, अथो एनयोर्महती कीर्तिः ।।३२।। अव्यञ्जने ।२।१॥३५॥ त्यदादेरिदमो व्यञ्जनादौ स्यादौ परेऽन्वादेशे अः स्यात्, अवृत्त्यन्ते । इमकाभ्यां शैक्षकाभ्यां रात्रिरधीता, अथो आभ्यामहरप्यधीतम् । इमकेषु अथो एषु । अनक् [२।१।३६] इति वक्ष्यमाणादिह साको विधिः ।।३३।। अनक् ।२।१॥३६॥ त्यदादेर्व्यञ्जनादौ स्यादौ परेऽग्वर्ज इदम् अ: स्यात् । आभ्याम् । आभिः । एषु । आसु । अनग् इति किम् ? इमकाभ्याम् । त्यदाम् इत्येव, अतीदंभ्याम् ।।३४|| टौस्यनः ।।११३७॥ त्यदां टायामोसि च परेऽनक इदमोऽनः स्यात् । अनेन । अनया । अनयोः । त्यदाम् इत्येव ? प्रियेदमा । अनक इत्येव, इमकेन ।।३५।। अयमियम् पुं-स्त्रियोः सौ ।२।१॥३८॥ त्यदां सौ परे इदमः पुंस्त्रियोर्यथासङ्ख्यमयमियमौ स्याताम् । अयं ना । इयं स्त्री । त्यदाम् इत्येव, अतीदं ना स्त्री वा ।।३६।। दो मः स्यादौ ।२।१॥३९॥ त्यदां स्यादौ परे इदमो दो म: स्यात् । इमौ । परमेमौ । इमकाभ्याम् । त्यदाम् इत्येव, प्रियेदमौ ।।३७|| किमः कस्तसादौ च ।२।११४०॥ त्यदां स्यादौ तसादौ च प्रत्यये परे किम: क: स्यात् । कः । साकोऽपि कः । कदा । कर्हि । तसादौ च इति किम् ? किं पश्य । किन्तराम् । त्यदाम् इत्येव, प्रियकिमौ ॥३८|| आ ढेरः ।२।११४१॥ द्विशब्दमभिव्याप्य त्यदां स्यादौ तसादौ च परे अ: स्यात् । स्यः । त्यौ । द्वौ । ततः । त्यदाम् इत्येव, अतितदौ ।।३९।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy