SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं युष्मदस्मद्भ्यां पूर्वं जसन्तादन्यदामन्त्र्यं विशेष्यमामन्त्र्ये तद्विशेषणे परेऽसदिव न स्यात् । साधो ! सुविहित त्वा शरणं प्रपद्ये । साधो ! सुविहित ! मा रक्ष ।।२७|| पादायोः ।२।१।२८॥ नियतपरिमाणमात्रा-ऽक्षरपिण्डः पादः, पदात् परयोः पादस्यादौ युष्मदस्मदोर्वस्नसादि न स्यात् । वीरो विश्वेश्वरो देवो युष्माकं कुलदेवता। स एव नाथो भगवानस्माकं पापनाशनः ॥१॥ पादाद्यो: इति किम् ? पान्तु वो देशनाकाले जैनेन्द्रा दशनांशवः ॥२८॥ चाऽहहवैवयोगे।२।१२९॥ एभियोगे पदात् परयोर्युष्मदस्मदोर्वस्नसादि न स्यात् । ज्ञानं युष्मांश्च रक्षतु, अस्मांश्च रक्षतु । एवं अह-ह-वा-एवैरप्युदाहार्यम् । योग इति किम् ? ज्ञानं च शीलं च ते स्वम् ।।२९|| - नित्यमन्वादेशे ।२।१॥३१॥ किञ्चिद्विधातुं कथितस्य पुनरन्यद्विधातुं कथनमन्वादेशः, तस्मिन् विषये पदात् परयोर्युष्मदस्मदोर्वस्नसादि नित्यं स्यात् । यूयं विनीतास्तद्वो गुरवो मानयन्ति । वयं विनीतास्तन्नो गुरवो मानयन्ति । धनवांस्त्वमथो त्वा लोको मानयति । धनवानहमथो मा लोको मानयति ।।३०॥ त्यदामेनदेतदो द्वितीया-टौस्यवृत्त्यन्ते ।।१॥३३॥ त्यदादीनामेतदो द्वितीयायां टायामोसि च परेऽन्वादेशे एनद् स्यात्, न तु वृत्त्यन्ते । उद्दिष्टमेतदध्ययनमथो एनदनुजानीत । एतकं साधुमावश्यकमध्यापय, अथो एनमेव सूत्राणि, अत्र साकः । एतेन रात्रिरधीता, अथो एनेनाहरप्यधीतम् । एतयो: शोभनं शीलम्, अथो एनयोर्महती कीर्तिः । त्यदाम् इति किम् ? संज्ञायाम् एतदं संगृहाण, अथो एतदमध्यापय । अवृत्त्यन्ते इति किम् ? अथो परमैतं पश्य ।।३१।। इदमः ।२।१॥३४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy