SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् द्वित्वे वाम्नौ । २।१।२२॥ पदात् परयोर्युष्मदस्मदोर्द्वित्वविषयया युग्विभक्त्या सह यथासङ्ख्यं 'वाम् नौ' इत्येतौ वा स्याताम्, एकवाक्ये । धर्मो वां पातु । धर्मो युवां पातु । धर्मो नौ पातु । धर्म आवां पातु । एवं चतुर्थी - षष्ठीभ्यामपि ||२२|| ङे - ङसा ते मे 1२1१।२३॥ I I ङे-ङस्भ्यां सह पदात् परयोर्युष्मदस्मदोर्यथासङ्ख्यं ते मे इत्येतौ वा स्याताम्, एकवाक्ये । धर्मस्ते दीयते । धर्मस्तुभ्यं दीयते । धर्मो मे दीयते । धर्मो मह्यं दीयते । धर्मस्ते स्वम् | धर्मस्तव स्वम् । धर्मो मे स्वम् | धर्मो मम स्वम् ||२३|| अमा त्वा मा |२| १|२४ ॥ अमा सह पदात् परयोर्युष्मदस्मदोर्यथासङ्ख्यं 'त्वा मा' इत्येतौ वा स्याताम्, एकवाक्ये । धर्मस्त्वा पातु । धर्मस्त्वां पातु । धर्मो मा पातु । धर्मो मां पातु 1 ||२४|| २९ असदिवाऽऽमन्त्र्यं पूर्वम् | २|१|२५|| आमन्त्रचार्थं पदं युष्मदस्मद्भ्यां पूर्वमसदिव स्यात् । जना ! युष्मान् पातु धर्मः । साधू ! युवां पातु धर्मः । साधो ! त्वां पातु तपः । पूर्वम् इति किम् ? मयैतत् सर्व्वमाख्यातं युष्माकं मुनिपुङ्गवाः || २५ | जस्विशेष्यं वाssमन्त्र्ये | २|१|२६|| युष्मदस्मद्भयां पूर्वं जसन्तमामन्त्र्यार्थं विशेष्यवाचि आमन्त्र्ये पदेऽर्थात् तद्विशेषणे परेऽसदिव वा स्यात् । जिना: शरण्याः ! युष्मान् शरणं प्रपद्ये । जिना: शरण्याः ! वः शरणं प्रपद्ये । जिना: शरण्याः ! अस्मान् रक्षत | जिना: शरण्याः ! नो रक्षत । जस् इति किम् ? साधो ! सुविहित ! वोऽथो शरणं प्रपद्ये । साधो ! सुविहित ! नोऽथो रक्ष । विशेष्यम् इति किम् ? शरण्याः साधवो ! युष्मान् शरणं प्रपद्ये । आमन्त्र्य इति किम् ? आचार्याः ! युष्मान् शरण्याः ! शरणं प्रपद्ये । अर्थाद् विशेषणभूत इति किम् ? आचार्याः ! उपाध्यायाः ! युष्मान् शरणं प्रपद्ये ||२६|| नाऽन्यत् ।२।१।२७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy