SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ २८ स्वोपज्ञरहस्यवृत्तिविभूषितं मह्यम् । प्रियतुभ्यम् । प्रियमह्यम् । प्राक्चाऽक इत्यव, तुभ्यकम् । मह्यकम् ।।१४।। तव मम ङसा ।२।१।१५।। ङसा सह युष्मदस्मदोर्यथासङ्खचं तव-ममौ स्याताम् । तव । मम । अतितव । अतिमम । प्राक्चाऽक इत्येव, तवक। ममक ।।१५।। अमौ मः ।२।१।१६।। युष्मदस्मद्भयां परयोः अम्-औ इत्येतयोर्म स्यात् । त्वाम् । माम् । अतित्वाम् । अतिमाम् । युवाम् । आवाम् । अतियुवाम् । अत्यावाम् ।।१६।। शसो नः ।२।११७॥ युष्मदस्मद्भ्यां परस्य शसो न् स्यात् । युष्मान् । अस्मान् । प्रियत्वान् । प्रियमान् ॥१७॥ अभ्यम् भ्यसः ।२।११८॥ युष्मदस्मद्भ्यां परस्य चतुर्थीभ्यसोऽभ्यम् स्यात् । युष्मभ्यम् ।। अस्मभ्यम् । अतियुवभ्यम् । अत्यावभ्यम् ।।१८।। सेश्चाऽद् ।२।१११९॥ युष्मदस्मद्भ्यां परस्य ङसे: पञ्चमीभ्यसश्च अद् स्यात् । त्वद् । मद् । अतियुवद् । अत्यावद् । युष्मद् । अस्मद् । अतित्वद् । अतिमद् ।।१९।। आम आकम् ।२।१॥२०॥ युष्मदस्मद्भ्यां परस्य आम आकं स्यात् । युष्माकम् । अस्माकम् । अतियुवाकम् । अत्यावाकम् । युष्मान् अस्मान् वाऽऽचक्षाणानां युष्माकम्, अस्माकम् ।।२०।। पदाधुग्विभक्त्यैकवाक्ये वस्नसौ बहुत्वे ।२।१२१॥ बहुत्वविषयया समविभक्त्या सह पदात् परयोर्युष्मदस्मदोर्यथासङ्ख्यं वस्नसौ वा स्याताम्, तच्चेत्पदं युष्मदस्मदी चैकस्मिन् वाक्ये स्त:, अन्वादेशे नित्यं विधानादिह विकल्प: । धर्मो वो रक्षतु । धर्मो नो रक्षतु । धर्मो युष्मान् रक्षतु । धर्मोऽस्मान् रक्षतु । एवं चतुर्थी-षष्ठीभ्यामपि । पदाद् इति किम् ? युष्मान् पातु। युग्विभक्त्या इति किम् ? तीर्थे यूयं यात । एकवाक्येत्येव, अतियुष्मान् पश्य, ओदनं पचत, युष्माकं भविष्यति ।।२१|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy