________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
शेषे लुक् ।२।१।८॥ यस्मिन्ना-यौ कृतौ ततोऽन्यः शेष:, तस्मिन् स्यादौ परे युष्मदस्मदोर्लुक् स्यात् । युष्मभ्यम् । अस्मभ्यम् । अतित्वत् । अतिमत् । शेषे इति किम् ? त्वयि । मयि । युवयोः । आवयोः ।।८।।
मोर्वा शश९॥ शेषे स्यादौ परे मान्तयोर्युष्मदस्मदोलुंग् वा स्यात् । युवां युष्मान् वा आवाम् अस्मान् वा आचक्षाणेभ्य: युष्मभ्यम्, युषभ्यम्, अस्मभ्यम्, असभ्यम् ।।९।।
मन्तस्य युवा-ऽऽवौ द्वयोः ।२।१।१०॥ द्वयर्थवृत्त्योर्युष्मदस्मदोर्मान्तावयवस्य स्यादौ परे यथासङ्ख्यं 'युव आव' इत्येतौ स्याताम् । युवाम् । आवाम् । अतियुवाम् । अत्यावाम् । अतियुवासु । अत्यावासु । मन्तस्य इति किम् ? युवयो: आवयोः इत्यत्र दस्य यत्वं यथा स्यात् । स्यादौ इत्येव, युवयोः पुत्रः युष्मत्पुत्रः ।।१०।।
त्व-मौ प्रत्ययोत्तरपदे चैकस्मिन् ।२।१।११॥ स्यादौ प्रत्ययोत्तरपदयोश्च परयोरेकार्थवृत्त्योर्युष्मदस्मदोर्मान्तावयवस्य यथासङ्ख्यं 'त्व म' इत्येतौ स्याताम् । त्वाम् । माम् । अतित्वाम् । अतिमाम् । अतित्वासु। अतिमासु। त्वदीयम्। मदीयम्। त्वत्पुत्र: । मत्पुत्रः । प्रत्ययोत्तर++पदे च इति किम् ? अधियुष्मद् । अध्यस्मद् । एकस्मिन् इति किम् ? युष्माकम् । अस्माकम् ।।११।।
त्वमहं सिना प्राक्चाऽकः ।२।१।१२॥ सिना सह युष्मदस्मदोर्यथासङ्ख्यं त्वमहमौ स्याताम्, तौ चाक्प्रसङ्गेऽक: प्रागेव । त्वम् । अहम् । अतित्वम् । अत्यहम् । प्राक्चाsक इति किम् ? त्वकम् । अहकम् ।।१२।।
यूयं वयं जसा ।२।१।१३॥ जसा सह युष्मदस्मदोर्यथासङ्ख्यं यूयम्-वयमौ स्याताम् । यूयम् । वयम् । प्रिययूयम् । प्रियवयम् । प्राक्चाऽक इत्येव, यूयकम् । वयकम् ।।१३।।
. तुभ्यं मह्यं ड्या ।२।१।१४॥ ङया सह युष्मदस्मदोर्यथासङ्ख्यं तुभ्यम्-मह्यमौ स्याताम् । तुभ्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org