________________
स्वोपज्ञरहस्यवृत्तिविभूषितं
इत्येतो याम् इति वर्त्तते । स्याल चतसृ स्यादौ ।
[अथ द्वितीयोऽध्याय:]
[प्रथमः पादः] त्रि-चतुरस्तिसृ-चतसृ स्यादौ ।२।१।१॥ स्त्रियाम् इति वर्त्तते । स्यादौ परे स्त्रीवृत्त्योस्त्रि-चतुरोर्यथासङ्ख्यं तिसृ +चतसृ इत्येतौ स्याताम् । तिस्रः । चतस्रः । तिसूषु । चतसृषु । प्रियतिसा प्रियचतसा ना। प्रियतिसृ कुलम् । स्यादौ इति किम् ? प्रियत्रिकः । प्रियचतुष्कः ॥१||
ऋतो रः स्वरेऽनि ।२।१॥२॥ तिसृ-चतसृस्थस्य ऋतः स्वरादौ स्यादौ परे र: स्यात्, अनि नविषयादन्यत्र । तिस्रः । चतस्रः । प्रियतिस्रौ । प्रियचतस्रौ । स्वरे इति किम् ? तिसृभिः । चतसृभिः । अनि इति किम् ? तिसृणाम् । चतसृणाम् ||२||
जराया जरस् वा ।२।१॥३॥ स्वरादौ स्यादौ परे जराया जरस् वा स्यात् । जरसौ । जरस: । जरे । जराः । अतिजरसौ । अतिजरौ । अतिजरसम् अतिजरं कुलम् ।।३।।
अपोऽद् भे ।२।१४॥ भादौ स्यादौ परे अपो अद् स्यात् । अद्भिः । स्वद्भयाम् । भे इति किम् ? अप्सु ॥४॥
आ रायो व्यञ्जने ।२।१५॥ व्यञ्जनादौ स्यादौ परे रैशब्दस्य आ: स्यात् । रा: । रासु । अतिराभ्यां कुलाभ्याम् । व्यञ्जने इति किम् ? राय: ।।५।।
युष्मदस्मदोः ।२।१६॥ व्यञ्जनादौ स्यादौ परे युष्मदस्मदोरा: स्यात् । त्वाम् । माम् । अतित्वाम् । अतिमाम् । युष्मासु । अस्मासु ।।६।।
टा-ङ्योसि यः ।२।११७॥ टा-डयोस्सु परेषु युष्मदस्मदोर्य: स्यात् । त्वया । मया । अतियुवया । अत्यावया । त्वयि । मयि । युवयोः । आवयोः । टा-डयोसि इति किम् ? त्वत् । मत् ।।७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org