________________
,
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
पन्थानमिच्छन् पथीः ||७४ ||
एः | १|४| ७७ ॥
पथ्यादीनां नान्तानामितो घुटि परे आः स्यात् । पन्थाः । पन्थानौ । पन्थानः | पन्थानम् | सुपन्थानि कुलानि । मन्थाः । ऋभुक्षाः । नान्तनिर्देशादिह न स्यात्, पथ्यौ । पथ्यः ||७५ ||
थो
न्थ् । १।४।७८।।
पथिन्मथिनोर्नान्तयोस्थस्य घुटि परे न्थ् स्यात् । तथैवोदाहृतम् ||७६|| इन् ङी- स्वरे लुक् | १|४|७९ ॥
२३
पथ्यादीनां नान्तानां ङयां घुट्स्वरादौ च स्यादौ परे इन् लुक् स्यात् । सुपथी स्त्री कुले वा । पथः । सुमथी स्त्री कुले वा । मथः । अनुभुक्षी सेना कुले
वा | ऋभुक्षः ॥७७॥
वोशनसो नश्चाऽऽमन्त्रये सौ | १|४|८० ॥
आमन्त्र्यवृत्तेरुशनसो न-लुकौ सौ परे वा स्याताम् । हे उशनन् !, हे उशन !, हे उशनः ! | आमन्त्र्ये इति किम् ? उशना || ७८ || उतोऽनडुच् चतुरो वः | १|४|८१ ॥
आमन्त्र्यवृत्त्योरनडुच्चतुरोरुतः सौ परे वः स्यात् । हे अनड्वन् ! । हे अतिचत्वः ! || ७९ ॥
वाः शेषे | १|४|८२॥
आमन्त्र्यविहितात् सेरन्यो घुट् शेषः, तस्मिन् परेऽनडुच्चतुरोरुतो वा : स्यात् । अनड्वान्, अनड्वाहौ । प्रियचत्वाः । प्रियचत्वारौ । शेषे इति किम् ? हे अनड्वन् ! | हे प्रियचत्वः ! || ८०||
सख्युरितोऽशावैत् | १|४|८३ ॥
सख्युरिदन्तस्य शिवर्जे शेषे घुटि परे ऐत् स्यात् । सखायौ । सखायः । इत इति किम् ? सख्यौ स्त्रियौ | अशौ इति किम् ? अतिसखीनि । शेषे इत्येव, हे सखे ! ।।८१।।
Jain Education International
ऋदुशनस्पुरुदंशोऽनेहसश्च सेर्डाः | १|४|८४ ॥
ऋदन्तादुशनसादेः सख्युरितश्च परस्य शेषस्य सेर्डा : स्यात् । पिता । + +
www.jainelibrary.org
For Private & Personal Use Only