SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ २४ स्वोपज्ञरहस्यवृत्तिविभूषितं अतिपिता । कर्त्ता । उशना । पुरुदंशा । अनेहा । सखा ।।८२।। नि दीर्घः ।।४।८५॥ शेषे घुटि परे यो नः तस्मिन् परे स्वरस्य दीर्घः स्यात् । राजा । राजानौ । वनानि । कर्तृणि । शेषे इत्येव, हे राजन् ! ।।८३।। न्स्-महतोः ११४।८६॥ न्सन्तस्य महतश्च स्वरस्य शेषे घुटि परे दीर्घः स्यात् । श्रेयान् । श्रेयांसौ । महान् । महान्तौ ।।८४॥ इन्-हन्-पूषा-ऽर्यम्णः शि-स्योः ।।४।८७॥ इन्नन्तस्य हनादेश्च स्वरस्य शि-स्योरेव परयोर्दीर्घः स्यात् । दण्डीनि । स्रग्वीणि । दण्डी । स्रग्वी । भ्रूणहानि । ब्रह्म-भ्रूण-वृत्रात् विप् [५।१।१६१] इति क्विप् । बहुपूषाणि । पूषा । स्वर्यमाणि । अर्यमा । शिस्योः । एव इति किम् ? दण्डिनौ । वृत्रहणौ, पूर्वपदस्थान्नाम्यग: [२।३।६४] इति णत्वम् । पूषणौ । अर्यमणौ ।।८५।। __ अपः ।।४।८८॥ अप: स्वरस्य शेषे घुटि परे दीर्घः स्यात् । आपः । स्वापौ ।।८६।। नि वा ।११४६८९॥ अप: स्वरस्य नागमे सति घुटि परे दीर्घो वा स्यात् । स्वाम्पि । + स्वम्पि । बह्वाम्पि । बह्वम्पि ।।८७|| अभ्वादेरन्त्वसः सौ ।।४।९०॥ अन्त्वन्तस्याऽसन्तस्य च भ्वादिवर्जस्य शेषे सौ परे दीर्घः स्यात् । भवान् । यवमान्। नोर्यादिभ्यः [२।१।९९] इति वत्वाभावः । गोमन्तं स्थूलशिरसं वेच्छति गोमान्, स्थूलशिराः । अभ्वादेरिति किम् ? पिण्डग्र: ।।८८।। क्रुशस्तुनस्तृच् पुंसि ।१।४।९१॥ क्रुशो यस्तुन् तस्य शेषे घुटि परे तृच् स्यात् पुंसि । क्रोष्टा, क्रोष्टारौ । पुंसीति किम् ? कृशक्रोष्टूनि वनानि ।।८९।। शेषात् क्रोष्ट्रा, क्रोष्टुना इत्यादिषु टादौ स्वरे वा ।।४।९२॥।॥९०॥ स्त्रियाम् ।।४।९३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy