SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । नामिनो लुग्वा ।।४।६१॥ नाम्यन्तस्य नपुंसकस्य स्यमोटुंग्वा स्यात् । हे वारे !, हे वारि ! । प्रियतिसृ प्रियत्रि कुलम् ।।६।। वाऽन्यतः पुमांष्टादौ स्वरे ।१।४।६२। अन्यतो विशेष्यवशानपुंसको नाम्यन्त: टादौ स्वरे परे पुंवद्वा स्यात् । ग्रामण्या ग्रामणिना कुलेन । कों: कर्तृणोः कुलयोः । अन्यत इति किम् ? पीलुने फलाय । टादाविति किम् ? शुचिनी कुले । नपुंसकस्येत्येव, कल्याण्यै स्त्रियै ॥६१ दध्यस्थिसक्थ्यक्ष्णोऽन्तस्याऽन् ।१।४।६३॥ __ एषां नपुंसकानां नाम्यन्तानामन्तस्य टादौ स्वरे परे अन् स्यात् । दना । अतिदध्ना । अस्थ्ना । अत्यस्थ्ना । सक्थ्ना । अतिसक्थ्ना । अक्ष्णा । अत्यक्ष्णा ।।६२।। __ अनामस्वरे नोऽन्तः ।१।४।६४॥ नाम्यन्तस्य नपुंसकस्याऽऽम्वर्जे स्यादौ स्वरे परे नोऽन्तः स्यात् । वारिणी । वारिण: । कर्तृणी । प्रियतिसृणः । अनामिति किम् ? वारीणाम् । स्वर इति किम् ? हे वारे ! । स्यादौ इत्येव, तौम्बुरवं चूर्णम् ।।६३।। स्वराच्छौ ।१४॥६५॥ शौ परे स्वरान्तानपुंसकात् परो नोऽन्तः स्यात् । कुण्डानि । स्वरादिति किम् ? चत्वारि ॥६४|| धुटां प्राक् ।।४।६६॥ स्वरात् परा या धुड्जाति: तदन्तस्य नपुंसकस्य शौ परे धुड्भ्य एव प्राग् नोऽन्त: स्यात् । पयांसि । अतिजरांसि । काष्ठत्वति । स्वरादित्येव, गोमन्ति ॥६५॥ र्लो वा ।।४।६॥ र-लाभ्यां परा या धुड्जाति: तदन्तस्य नपुंसकस्य शौ परे धुड्भ्य एव प्राक् नोऽन्तो वा स्यात् । बहूजि, बहूर्जि । सुवल्ङ्गि, सुवल्गि । र्ल इति किम् ? काष्ठत्वति । धुटामित्येव, सुफुल्लि ।।६६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy