SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ २० स्वोपज्ञरहस्यवृत्तिविभूषितं सङ्ख्या-साय-वेरह्नस्याऽहन् ङौ वा ।।४।५०॥ सङ्ख्यावाचिभ्य: साय-विभ्यां च परस्याऽह्नस्य ङौ परेऽहन् वा स्यात् । व्यह्नि, व्यहनि, व्यते । सायाह्नि, सायाहनि, सायाह्ने । व्यह्नि, व्यहनि, व्यह्वे ।।५०|| निय आम् ।।४॥५१॥ निय: परस्य डेराम् स्यात्। नियाम्। ग्रामण्याम्। ग्रामा-ऽग्रान्निय: [२।३।७१] इति णत्वम् ।।५१|| . वाष्टन आः स्यादौ ।१।४।५२॥ अष्टन: स्यादौ परे आ वा स्यात् । अष्टाभिः, अष्टभिः । प्रियाष्टाः, प्रियाष्टा ||५२|| __ अष्ट औ जस्-शसोः ।।४।५३॥ अष्टन: कृतात्वस्य जस्-शसोरौः स्यात् । अष्टौ । अष्टौ ॥५३।। डति-ष्-णः सङ्ख्याया लुप् ।।४।५४॥ डति-ष-नां सङ्ख्यानां जस्-शसोलुप् स्यात् । कति । कति । षट् । षट् । पञ्च । पञ्च ।।५४॥ नपुंसकस्य शिः ।।४।५५॥ नपुंसकस्य जस्-शसो: शि: स्यात् । कुण्डानि, पयांसि ।।५।। औरी ।।४५६॥ नपुंसकस्य औरी स्यात् । कुण्डे । पयसी ।।५६।। अतः स्यमोऽम् ।।४।५७॥ अदन्तस्य नपुंसकस्य स्यमोरम् स्यात् । कुण्डम् । हे कुण्ड ! ॥५७|| पञ्चतोऽन्यादेरनेकतरस्य दः ।।४।५८॥ पञ्चपरिमाणस्य नपुंसकस्याऽन्यादेः स्यमोर्दः स्यात्, एकतरवर्जम् । अन्यत् । अन्यतरत् । इतरत् । कतरत् । कतमत् । अनेकतरस्येति किम् ? एकतरम् ।।५८|| अनतो लुप् ।।४।५९॥ अनकारान्तस्य नपुंसकस्य स्यमो प् स्यात् । कर्तृ । पयः ।।५९|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy