________________
स्वोपज्ञरहस्यवृत्तिविभूषितं
सर्वादेराबन्तस्य ङितां यै- यास् - यास् - यामः ते डस्पूर्वाः स्युः । सर्वस्यै । सर्वस्याः । सर्वस्याः । सर्वस्याम् ॥ १८ ॥
टौस्येत् | १|४|१९॥
आबन्तस्य टौसोः परयोरेकारः स्यात् । बहुराजया । बहुराजयोः ||१९|| औता ।१।४।२०॥
१६
आबन्तस्य औता सहैकारः स्यात् । माले स्तः पश्य वा ||२०|| इदुतोऽस्त्रेरीदूत् | १|४|२१||
स्त्रेरन्यस्येदन्तस्योदन्तस्य च औता सह यथासङ्ख्यं ईदूतौ स्याताम् । मुनी । साधू । अस्त्रेरिति किम् ? अतिस्त्रियौ नरौ ||२१||
जस्येदोत् ।१।४।२२।।
इदुदन्तयोर्जसि परे यथासत्यमेदोतौ स्याताम् । मुनयः | साधवः ||२२|| ङित्यदिति । १।४।२३॥
अदिति ङिति स्यादौ परे इदुदन्तयोर्यथासङ्क्षयमेदोतौ स्याताम् । अतिस्त्रये । साधवे । अतिस्त्रेः साधोः आगतं स्वं वा । अदितीति किम् ? बुद्ध्याः । धेन्वाः | स्यादौ इत्येव, शुची स्त्री ||२३||
।
टः पुंसि ना | १|४|२४॥
पुंवृत्तेः इदुदन्तात् परस्याः टाया ना स्यात् । अतिस्त्रिणा । अमुना । पुंसि इति किम् ? बुद्धा ||२४||
ङिर्यौ | १|४|२५||
इदुदन्तात् परोङ स्यात् । मुनौ । धेनौ । अदिदित्येव, केवलसखि-पतेरौ । १।४।२६॥
बुद्धयाम् ||२५||
केवलसखि-पतिभ्यामिदन्ताभ्यां परो ङिरौः स्यात् । सख्यौ । पत्यौ । इत इत्येव, सखायमिच्छति सख्यि । केवलेति किम् ? प्रियसखौ । नरपतौ ||२६|| न ना ङिदेत् | १|४|२७॥
केवलसखि-पतेर्यः टाया ना ङिति परे एवोक्तः स न स्यात् । सख्या । पत्या । सख्ये । पत्ये । सख्युः पत्युः आगतं स्वं वा । सख्यौ । पत्यौ । ङिदिति
I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org