SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । सर्वादेरदन्तस्य जस इः स्यात् । सर्वे ||९|| मार्द्ध- प्रथम- चरम-तया - sया - ऽल्प- कतिपयस्य वा | १|४|१०॥ मादीनि नामानि तया - ऽयौ प्रत्ययौ, तेषामदन्तानां सर्वा स्यात् । नेमे, नेमाः । अर्द्धे, अर्द्धाः । प्रथमे, प्रथमाः । चरमे, चरमाः । द्वितये, द्वितयाः । त्रये, त्रयाः । अल्पे, अल्पा: । कतिपये, कतिपयाः || १०|| द्वन्द्वे वा | १|४|११ ॥ I , १५ द्वन्द्वसमासस्थस्यादन्तस्य सर्वादेर्जस इर्वा स्यात् । पूर्वोत्तरे, पूर्वोत्तराः ||११|| न सर्वादिः | १|४|१२॥ द्वन्द्वे सर्वादिः सर्वादिर्न स्यात् । पूर्वा ऽपराय, पूर्वा - ऽपरात्, पूर्वा-ऽपरे । कतर- कतमानाम्, कतर कतमकाः ||१२|| तृतीयान्तात् पूर्वा ऽवरं योगे | १|४|१३ ॥ - - तृतीयान्तात् परौ पूर्वा-ऽवरौ योगे सम्बन्धे सति सर्वादी न स्याताम् । मासेन पूर्वाय, मासपूर्वाय । दिनेनाऽवराय, दिनावराय । दिनेनाऽवराः, दिनावराः । तृतीयान्तादिति किम् ? पूर्वस्मै मासेन || १३ || तीयं ङित्कार्ये वा | १|४|१४|| Jain Education International तीयान्तं नाम ङे-ङसि - ङस् - ङीनां कार्ये सर्वादिर्वा स्यात् । द्वितीयस्मै, द्वितीयाय । द्वितीयस्यै, द्वितीयायै । ङित्कार्य इति किम् ? द्वितीयकाय || १४ || अवर्णस्याऽऽमः साम् | १|४|१५ ॥ अवर्णान्तस्य सर्वादेराम: साम् स्यात् । सर्वेषाम्, विश्वासाम् ||१५|| नवभ्यः पूर्वेभ्य इ-स्मात् - स्मिन् वा । १।४।१६ ॥ पूर्वादिभ्यो नवभ्यो ये इ-स्मात्-स्मिनो यथास्थानमुक्ताः ते वा स्युः । पूर्व्वे, पूर्व्वाः । पूर्वस्मात् पूर्वात् । पूर्वस्मिन् पूर्वे इत्यादि । नवभ्य इति किम् ? त्ये ॥१६॥ आपो ङितां यै- यास् यास् - याम् । १।४।१७। - आबन्तस्य ङितां ङे ङसि - ङस् - ङीनां यथासङ्ख्यं यै- यास् - यास्-यामः स्युः । खट्वायै । खट्वायाः । खद्वायाः । खद्वायाम् ||१७|| सर्वादेर्डस् पूर्वाः | १|४|१८|| For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy