SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ . १२ स्वोपज्ञरहस्यवृत्तिविभूषितं लीढम् । गूढम् । तड्ढे इति किम् ? मधुलिड् ढौकते ।।२३।। सहिवहेरोच्चाऽवर्णस्य ।।३॥४३॥ सहि-वह्योर्डस्य तड्डे परेऽनु लुक् स्यात्, ओच्चावर्णस्य । सोढा । वोढा । उदवोढाम् ।।२४।। तदः सेः स्वरे पादार्था ।१॥३॥४५॥ __ तदः परस्य से: स्वरे परे लुक् स्यात्, सा चेत् पादपूरणी स्यात् । सैष दाशरथी रामः ॥२५॥ ___ एतदश्च व्यञ्जनेऽनग-नसमासे ।११३॥४६॥ एतदस्तदश्च परस्य सेर्व्यञ्जने परे लुक् स्यात्, अकि नसमासे च न । एष दत्ते, स लाति । अनग्-नसमास इति किम् ? एषक: कृती । सको याति । अनेषो याति । असो वाति ।।२६।।। तृतीयस्तृतीय-चतुर्थे ।१॥३॥४९॥ तृतीये चतुर्थे च परेऽर्थात् धुटस्तृतीय: स्यात् । मज्जति, दोग्धा ॥२७॥ अघोषे प्रथमोऽशिटः ।।३।५०॥ अघोषे परे शिवर्जस्य धुट: प्रथम: स्यात् । वाक्पूता । अशिट इति किम् ? पयस्सु ।।२८॥ विरामे वा ।।३।५१॥ विरामस्थस्याऽशिटो धुट: प्रथमो वा स्यात् । वाक्, वाग् ।।२९।। न सन्धिः ।।३।५२॥ उक्तो वक्ष्यमाणश्च सन्धिविरामे न स्यात् । दधि अत्र ॥३०॥ रः पदान्ते विसर्गस्तयोः ।।३॥५३॥ पदान्तस्य रस्य तयोः विरामा-ऽघोषयोर्विसर्गः स्यात् । वृक्षः । स्व: । क: कृती । पदान्त इति किम् ? ईर्ते ।।३१।। शिट्यघोषात् ।१॥३॥५५॥ अघोषात् परे शिटि परत: पदान्तस्य रस्य विसर्ग एव स्यात् । पुरुष: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy