SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । त्सरुकः । सर्पिः प्साति । वास: क्षौमम् । अद्भिः प्सातम् ॥३२॥ अरोः सुपि रः ।१।३।५७॥ रोरन्यस्य रस्य सुपि परे र एव स्यात् । गीर्षु । धूर्षु । अरोरिति किम् ? पयस्सु ।।३३।। तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां योगे च-टवौ ।।३।६०॥ तवर्गस्य श्-चवर्गाभ्यां -टवर्गाभ्यां च योगे यथासङ्ख्यं चवर्ग-टवर्गों स्याताम् । तच् शेते । भवाञ् शेते । तच्चारु । तञकारेण । पेष्टा । पूष्ण: । तट्टके । तण्णकारे । ईट्टे ॥३४॥ सस्य श-षौ ।१।३।६१॥ सस्य श्चवर्ग-ष्टवर्गाभ्यां योगे यथासङ्ख्यं श-षौ स्याताम् । चवर्गेण श्च्योतति, वृश्चति । षेण दोष्षु । टवर्गेण पाक्षि ।।३५।। न शात् ।।३।६२॥ शात् परस्य तवर्गस्य चवर्गो न स्यात् । अश्नाति । प्रश्नः ॥३६।। पदान्ताट्टवर्गादनाम्-नगरी-नवतेः ।१।३।६३॥ पदान्ताट्टवर्गात् परस्य नाम्-नगरी-नवतिवर्जस्थस्य तवर्गस्य सस्य च टवर्ग-षौ न स्याताम् । षट्तयम् । षण्नया: । षट्सु । अनाम्-नगरी-नवतेरिति किम् ? षण्णाम् । षण्णगरी । षण्णवतिः ।।३७|| षि तवर्गस्य ।।३।६४॥ पदान्तस्थस्य तवर्गस्य थे परे टवर्गों न स्यात् । तीर्थकृत् षोडश: शान्ति: । षोडश इति एकादश-षोडश-षोडत्-षोढा-षड्डा [३।२।९१] इति सिद्धम् ॥३८॥ लि लौ ।१॥३॥६५॥ पदान्तस्थतवर्गस्थ ले परे लौ स्याताम् । तल्लूनम् । तानम् ।।३९।। ॥ प्रथमाध्यायस्य तृतीयः ।। १. अत्र लेखकदोष: प्रतीयते, लघुवृत्त्यादिषु ‘भवाल्लुंनाति' इति उदाहरणं दृश्यते ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy