________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
स चासन्धिः । पट इह, पटविह । वृक्षा इह, वृक्षाविह । त आहुः, त याहुः । तस्मा इदम्, तस्मायिदम् । भो अत्र, भोयत्र । भगो अत्र, भगोयत्र । अघो अत्र, अघोयत्र ।।१५।।
रोर्यः ।।३।२६॥ अवर्ण-भो-भगो-ऽघोभ्यः परस्य पदान्तस्य रो: स्वरे परे य: स्यात् । कयास्ते । देवायासते । भोयत्र । भगोयत्र । अघोयत्र ।।१६।।
ह्रस्वाद् ङ-ण-नो द्वे ।११३॥२७॥ ह्रस्वात् परेषां पदान्तानां ङ-ण-नां स्वरे परे द्वे रूपे स्याताम् । क्रुङ्ङास्ते । सुगण्णिह । कृषन्नास्ते ।।१७।।
अनाङ्माङो दीर्घाद्वा छः ।१।३।२८॥ आङ्-मावर्जपदस्था दीर्घात् परस्य छस्य द्वे रूपे वा स्याताम् । कन्याच्छत्रम्, कन्याछत्रम्। अनाङ्-माङ इति किम् ? आच्छाया। माच्छिदत्। ऋदिच्छवि-स्तम्भूग्रुचू-म्लुचू-ग्रुचू-ग्लुचू-ग्लुञ्चू-ज्रो वा [३।४।६५] इत्यङ् ।।१८।।।
स्वरेभ्यः ।।३।३०॥ स्वरात् परस्य छस्य द्वे रूपे स्याताम् । इच्छति ।।१९।।
म्नां धुड्वर्गेऽन्त्योऽपदान्ते ।१।३॥३९॥ अपदान्तानां मनां धुटि वर्गे परे निमित्तस्यैवान्त्योऽनु स्यात् । गन्ता । शङ्किता । कम्पिता । धुडिति किम् ? आहन्महे । धुड्वर्ग इति किम् ? . गम्यते । अपदान्त इति किम् ? भवान् करोति ।।२०।।
शिड्-हेऽनुस्वारः ।।३॥४०॥ अपदान्तानां नां शिटि हे च परेऽनुस्वारोऽनु स्यात् । पुंसि । दंश: । बृंहणम्
||२१||
रो रे लुग् दीर्घश्वाऽदिदुतः ।१॥३॥४१॥ __ रस्य रे परेऽनु लुक् स्यात्, अ-इ-ऊनां च दीर्घः । पुना रात्रि: । अग्नी रथेन । पटू राजा ।।२२।।
ढस्तड्ढे ।१।३॥४२॥ ढस्य तन्निमित्ते ढे परेऽनु लुक् स्यात्, दीर्घश्चादिदुत: । माढिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org