________________
स्वोपज्ञरहस्यवृत्तिविभूषितं
क्रमेण स्याताम् । भवांश्वरः, भवाँश्वरः । भवांश्छ्यति, भवाँश्छ्यति । भवांष्टकः, भवाँष्टकः । भवांष्ठकारः, भवाँष्ठकारः । भवांस्तनुः, भवाँस्तनुः । भवांस्थंडति, भवाँस्थुडति । अप्रशान इति किम् ? प्रशान् चरः । अधुट्पर इति किम् ? भवान् त्सरुकः । भवाञ्च् छूरः, भवाञ्च् शूर इत्यादौ तु शेषाद्वा नः शि ञ्च् [१|३११९] ||८||
१०
पुमोsशिट्यघोषेऽख्यागि रः | १|३ | ९ ||
पुमिति पुम्सोः संयोगलुक्यनुकरणम् । अधुट्परे अघोषे शिट्-ख्याग्वर्जे परे पुमित्येतस्य रः स्यात्, अनुस्वारा - ऽनुनासिकौ च पूर्वस्य । पुंस्कामा । पुंस्कामा | अशिटीति किम् ? पुंशर: । अघोष इति किम् ? पुंदासः | अख्यागीति किम् ? पुंख्यातः । अधुट्पर इत्येव, क्षारः || ९ ||
तम व्यस्व | १|३|१४॥
मोर्भ्यागमस्य, पदान्तस्य च मस्य, व्यञ्जने परे तस्यैव स्वौ तावनुस्वाराऽनुनासिकौ क्रमेण स्याताम् । चंक्रम्यते, चङ्क्रम्यते । वंवम्यते, ववँवम्यते । त्वं करोषि त्वङ्करोषि || १० ||
अतोऽति रोरुः । १।३।२०॥
आत् परस्य पदान्तस्थस्य रोरति परे उर्नित्यं स्यात् । कोऽर्थः || ११|| घोषवति | १|३ | २१ ॥
आत् परस्य पदान्तस्थस्य रोर्घोषवति परे उः स्यात् । धर्मो जेता ||१२|| अवर्ण-भो-भगो-अघोर्लुगसन्धिः ।१।३।२२||
अवर्णाद् भो-भगो-ऽघोभ्यश्च परस्य पदान्तस्य रोर्घोषवति परे लुक् स्यात् । स च न सन्धिहेतुः । देवा यान्ति । भो यासि । भगो हस । अघो
वद ||१३||
व्योः | १|३|२३||
अवर्णात् परयोः पदान्तयोर्व - ययोर्घोषवति परे लुक् स्यात् स चासन्धिः । वृक्षवृश्चम् अव्ययं वाऽऽचक्षाण: वृक्षव्, अव्यय् । वृक्ष याति । अव्य याति ॥ १४ ॥ स्वरे वा | १|३|२४ ॥
अवर्ण-भो-भगो-ऽघोभ्यः परयोः पदान्तस्थयोर्व-ययोः स्वरे परे लुग्वा स्यात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org