________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
[प्रथमाध्याये तृतीयः पादः ] तृतीयस्य च | १|३|१॥
वा इति पदान्त इति अनुनासिक इति चानुवर्त्तते । वर्गतृतीयस्य पदान्तस्थस्य पञ्चमे परेऽनुनासिको वा स्यात् । वाङ् ङवते, वाग् ङवते । ककुम्मण्डलम्,
ककुब्मण्डलम् ।।१।।
प्रत्यये च ॥ १|३|२॥
पदान्तस्थस्य तृतीयस्य प्रत्ययपञ्चमे परेऽनुनासिको नित्यं स्यात् । वाङ्मयम् । षण्णाम् । च उत्तरत्र वाऽनुवृत्त्यर्थः ||२|| ततो चतुर्थः | २|३|३||
९
पदान्तस्थात् ततस्तृतीयात् परस्य हस्य पूर्वस्ववर्गश्चतुर्थो वा स्यात् । वाग्घीन:, वाग्हीनः । ककुब्भासः, ककुब्हासः ||३|| प्रथमादधुटि छः | १|३|४||
पदान्तस्थात् प्रथमात् परस्य शस्याधुटि परे छो वा स्यात् । वाक्छूर:, वाक्शूरः । त्रिष्टुप्लुतम् त्रिष्टुपश्रुतम् । अधुटीति किम् ? वाक् इच्योतति ॥४॥ रः क ख - प-योः क- ७पौ ।१।३।५॥
पदान्तस्थस्य रेफस्य क-खे प फे च परे यथासंख्यं क - ७पौ वा स्याताम् । ककरोति, कः करोति । कखनति, कः खनति । कपचति, कः पचति । कफलति कः फलति ||५||++
श-ष- से श ष संवा । १।३६ ॥
पदान्तस्थस्य रस्य श-ष-सेषु परेषु यथासङ्ख्यं श-ष-सा वा स्युः । कश्शेते, कः शेते । कष्षण्ढः, कः षण्ढः । कस्साधुः कः साधुः || ६ || -- ते सद्वितीये |१| ३ |७||
"
पदान्तस्य रस्य च-ट-तेषु सद्वितीयेषु परेषु यथासङ्ख्यं श-ष-सा नित्यं स्युः । कश्वरः । कश्छ: । कष्टः । कष्ठः । कस्तः । कस्थः ||७||
नोऽप्रशानोऽनुस्वारा - sनुनासिकौ च पूर्वस्याऽधुट्परे | १ | ३ |८|| पदान्तस्य प्रशान्वर्जशब्दसम्बन्धिनो नस्य च ट - तेषु सद्वितीयेषु अधुट्परेषु परेषु श-ष-सा यथासङ्ख्यं स्युः, अनुस्वारा -ऽनुनासिकौ चागमा - ss देश पूर्वस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org