________________
स्वोपज्ञरहस्यवृत्तिविभूषितं
[प्रथमाध्याये द्वितीय: पाद:]
समानानां तेन दीर्घः ॥१२॥१॥ समानानां तेन समानेन परेण दीर्घः स्यात् । दण्डाग्रम् । साऽऽगता । दधीदम् । नदीन्द्रः । मधूदकम् । वधूढा । पितृषभः । ऋकारः । मातृकार:
॥१॥
अवर्णस्येवर्णादिनैदोदरल् ।१।२।६॥ अवर्णस्य इ-उ-ऋ-लवर्णैः सह यथासङ्ख्यम् ‘ए ओ अर् अल्' इत्येते स्युः । देवेन्द्रः । तवेहा । मालेयम् । सेक्षते । तवोदकम् । तवोढा । गङ्गोदकम् । सोढा । तवर्षिः । तवर्कारः । महर्षिः । सर्कारः । तवल्कारः । सल्कारेण ।।२।।
ऐदौत् सन्ध्यक्षरैः ।।२।१२॥ अवर्णस्य सन्ध्यक्षरैः परैः सह 'ऐ औ' इत्येतौ स्याताम् । तवैषा । खट्वैषा । तवैन्द्री । सैन्द्री । तवौदनः । तवौपगव: ।।३।।
ऊटा ।।२।१३॥ अवर्णस्य परेण ऊटा सह औ: स्यात् । धौत: ॥४॥
इवर्णादेरस्वे स्वरे यवरलम् ।१।२।२१॥ इ-उ-ऋ-लवर्णानामस्वे स्वरे परे ‘य व् र् ल्' इत्येते स्युः । दध्यत्र । नद्येषा । मध्वत्र । वध्वासनम् । पित्रर्थः । क्रादि: । लित् । लाकृतिः ।।५।।
एदैतोऽयाय् ।१।२।२३॥ एदैतो: स्वरे परे यथासङ्ख्यम् 'अय् आय' इत्येतौ स्याताम् । नयनम् । वृक्षयेव । नायक: । रायैन्द्री ।।६।।
ओदौतोऽवाव् ।१।२।२४॥ ओदौतोः स्वरे परे यथासङ्ख्यम् ‘अव् आव्' +इत्येतौ स्याताम् । लवनम् । पटवोतु: । लावकः । गावौ ।।७||
एदोतः पदान्तेऽस्य लुक् ।१।२।२७॥ एदोद्भ्यां पदान्तस्थाभ्यां परस्याऽकारस्य लुक् स्यात् । तेऽत्र । पटोऽत्र । पदान्त इति किम् ? नयनम् ।।८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org