SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् । गोर्नाम्न्यवोऽक्षे ।१।२।२८॥ गोरोत: पदान्तस्थस्य अक्षे परे संज्ञायाम् अव इति स्यात् । गवाक्षः । नाम्नीति किम् ? गोऽक्षाणि ।।९।। स्वरे वाऽनक्षे ।१।२।२९॥ गोरोत: पदान्तस्थस्य स्वरे परे अव इति वा स्यात्, स चेत् परोऽक्षस्थो न' स्यात् । गवाग्रम् । गोऽग्रम् । गवेश: । गवीशः । अनक्षे इति किम् ? गोऽक्षम् । ओत इत्येव, चित्रग्वर्थः ।।१०।। इन्द्रे ।१।२।३०॥ गोरोत: पदान्तस्थस्य इन्द्रस्थे स्वरे परे अव इति स्यात् । गवेन्द्रः ।।११।। वाऽत्यसन्धिः ।१।२।३१॥ गोरोत: पदान्तस्थस्य अकारे परे सन्ध्यभावो वा भवति । गोअग्रम् । गवाग्रम् । गोऽग्रम् । अतीति किम् ? गवेङ्गितम् ।।१२।। ईदूदेद् द्विवचनम् ।११२॥३४॥ ई ऊ ए इत्येवमन्तं द्विवचनान्तं स्वरे परे असन्धि: स्यात् । मुनी इह । साधू एतौ । माले इमे । पचेते इति । ईदूदेदिति किम् ? वृक्षावत्र । द्विवचनमिति किम् ? कुमार्यत्र ।।१३।। अदोमुमी ।१।२।३५॥ अदसः सम्बन्धिनौ मु-मी इत्येतौ स्वरे परे असन्धि: स्यात् । अमुमुईचा । अमी अश्वाः ।।१४।। ओदन्तः ।।२।३७॥ ओदन्तश्चादिः स्वरे परे असन्धि: स्यात् । अहो अत्र ॥१५।। सौ नवेतौ ।।२।३८॥ सिनिमित्त ओदन्त इतौ परे असन्धिर्वा स्यात् । पटो इति । पटविति ।।१६।। अइउवर्णस्यान्तेऽनुनासिकोऽनीदादेः ।१।२।४१॥ अइउवर्णानामन्ते विरामेऽनुनासिको वा स्यात्, न चेदेते ईदूदेद् द्विवचनम् [१।२।३४-४०] इत्यादिसूत्रसम्बन्धिनः स्युः । सामँ, साम । खट्वाँ, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy