SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं पञ्चमी षष्ठी सप्तमी च स्यात् ।।१८।। स्त्यादिर्विभक्तिः ।१।१९॥ 'स्' इति 'ति' इति चेत्युत्सृष्टानुबन्धस्य सेस्तिवश्व ग्रहणम्। स्यादयस्तिवादयश्च सुप्-स्यामहिपर्यन्ता विभक्तय: स्युः ।।१९।। तदन्तं पदम् ।।१।२०॥ स्याद्यन्तं त्याद्यन्तं च पदं स्यात् । धर्मो वः स्वम् । ददाति नः शास्त्रम् ॥२०॥ ___ नाम सिदय्व्यञ्जने ।१।११२१॥ सिति प्रत्यये यवर्जव्यञ्जनादौ च परे पूर्वं नाम पदं स्यात् । भवदीयः । पयोभ्याम् । अयिति किम् ? वाच्यति ।।२१।। नं क्ये ।१।१॥२२॥ क्ये इति क्यन्-क्यङ्-क्यवां ग्रहणम् । नान्तं नाम क्ये परे पदं स्यात् । राजीयति । राजायते । चर्मायते ।।२२।। न स्तं मन्त्वर्थे ।।१।२३॥ सान्तं तान्तं च नाम मन्त्वर्थे परे पदं न स्यात् । यशस्वी । तडित्वान् ।।२३।। मनुर्नभो-ऽङ्गिरो वति ।।१॥२४॥ एतानि वति परे पदं न स्युः । मनुष्वत् । नभस्वत् । अङ्गिरस्वत् ।।२४।। सविशेषणमाख्यातं वाक्यम् ।।१२६॥ प्रयुज्यमानैरप्रयुज्यमानैर्वा विशेषणैः सहितं प्रयुज्यमानमप्रयुज्यमानं वाऽऽख्यातं वाक्यं स्यात् ! धर्मो वो रक्षतु । लुनीहि ३ पृथुकाँश्व खाद । शीलं ते स्वम् ।।२।। अधातु-विभक्ति-वाक्यमर्थवन्नाम ।।१।२७॥ धातु-विभक्त्यन्त-वाक्यवर्जमर्थवच्छब्दरूपं नाम स्यात् । वृक्षः । स्वः । धवश्च । अधातु-विभक्ति-वाक्यमिति किम् ? अहन् । वृक्षान् । साधुर्धर्मं ब्रूते ||२६।। शिघुट् ।१।११२८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy