________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ।
आद्य-द्वितीय-श-ष-सा अघोषाः ।।११३॥ वर्गाणामाद्यद्वितीया वर्णाः श-ष-साश्चाघोषाः स्युः । क ख, च छ, ट ठ, त थ, प फ, श ष स ।।१३।।
__ अन्यो घोषवान् ।।११४॥ अघोषेभ्योऽन्यो कादिवर्णो घोषवान् स्यात् । ग घ ङ, ज झ ञ, ड ढ ण, द ध न, ब भ म ।।१४।।
य-र-ल-वा अन्तस्थाः ।।१।१५॥ एते अन्तस्था: स्युः ।।१५।।
अं-अः- क-७प-श-ष-साः शिट् ।११।१६॥ अ-क-पा उच्चारणार्थाः । अनुस्वार-विसर्गौ वज्र-गजकुम्भाकृती च वर्णी श-ष-साश्च शिट: स्युः ।।१६।।
तुल्यस्थाना-ऽऽस्यप्रयत्नः स्वः ।।११७॥ स्थानं कण्ठादि । आस्ये प्रयत्न आस्यप्रयत्नः स्पृष्टतादिः । तुल्यौ वर्णान्तरेण सदृशौ स्थाना-ऽऽस्यप्रयत्नौ यस्य स वर्णस्तं प्रति स्व: स्यात् ।
तत्र त्रयोऽकारा उदात्ता-ऽनुदात्त-स्वरिताः +प्रत्येकं सानुनासिकनिरनुनासिकभेदात् षट्, एवं दीर्घ-प्लुतौ । इत्यष्टादश भेदा अवर्णस्य । ते सर्वे कण्ठस्थाना विवृतकरणा: परस्परं स्वा: । एवम् इवर्णास्तावन्तस्तालव्या विवृतकरणा: स्वा: । उवर्णा ओष्ठया विवृतकरणा: स्वा: । ऋवर्णा मूर्द्धन्या विवृतकरणा: स्वा: । लवर्णा दन्त्या विवृतकरणा: स्वा: ।
सन्ध्यक्षराणां ह्रस्वा न सन्तीति तानि प्रत्येकं द्वादशभेदानि । तत्र एकारास्तालव्या विवृततरा: स्वा:, ऐकारास्तालव्या अतिविवृततरा: स्वाः, ओकारा ओष्ठ्या विवृततरा: स्वाः, औकारा ओष्ठ्या अतिविवृततरा: स्वा: ।
वर्याः पञ्च परस्परं स्वा: । य-ल-वानामनुनासिकोऽननुनासिकश्च द्वौ भेदौ परस्परं स्वौ ॥१७॥ ___ स्यौजसमौशस्-टाभ्यांभिस्-डेभ्यांभ्यस्-ङसिभ्यांभ्यस्-ङसोसाम्ङ्योस्सुपां त्रयी त्रयी प्रथमादिः ।।११८॥
स्यादीनां प्रत्ययानां त्रयी त्रयी यथासङ्ख्यं प्रथमा द्वितीया तृतीया चतुर्थी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org