________________
अत्रेदमादावश्यमवधेयम् - आचार्यभगवतां श्री हेमचन्द्रसूरीणां स्वर्गवासो वैक्रमे १२२९ वर्षे समजनि । तेषां विद्यमानतायां तालपत्रोपरि लिखितास्त्रयः श्रीसिद्धहेमचन्द्रशब्दानुशासनस्य आदर्शाः समुपलभ्यन्ते । तत्र विक्रमसंवत् १२०६ मध्ये तालपत्रोपरि लिखिते जेसलमेरस्थे २९७ ग्रन्थाङ्कयुते J1 आदर्श ५।१।१ त: ५।४।१० पर्यन्तं सूत्राणि लघुवृत्तिसहितानि सन्ति। विक्रमसंवत् १२२१ मध्ये तालपत्रोपरि लिखिते पाटणनगरस्थे संघवीपाडाभंडारसत्के १३७(२) ग्रन्थाङ्कयुते P3 आदर्शे ३।३।१ त: ५।४।१० पर्यन्तं सूत्राणि लघुवृत्तिसहितानि सन्ति । विक्रमसंवत् १२१८ मध्ये तालपत्रोपरि लिखिते जेसलमेरस्थे ३०१ ग्रन्थाङ्कयुते आदर्श सर्वेऽपि सप्त अध्यायाः स्वोपज्ञरहस्यवृत्तिसहिताः सन्ति । श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तसु अध्यायेषु ३५६६ सूत्राणि सन्ति, तेषु प्रायः १६७० सूत्राणि एव अस्यां रहस्यवृत्ती व्याख्यातानि । ___ एतदवलोकनेन स्पष्टमेव प्रतिभाति यद् ऋदुदितः [१।४।९०] इति सूत्रं प्रारम्भे आ.भ.श्री हेमचन्द्रसूरिभिर्नैव विरचितम् । किन्तु सर्वेऽपि ऋदितः उदितश्च प्रत्ययाः ‘शन्तृ, अन्तृ, अन्तृश्, क्वंसु, ईयंसु' ... इत्येवम् उपान्त्य 'न्' सहिता एव तैः स्वीकृताः। डित्यन्त्यस्वरादेः [२।१।११४] इति सूत्रानन्तरं च ईदृशानि त्रीणि सूत्राणि रहस्यवृत्तौ दृश्यन्ते -
__ "अघुटयुपान्त्यनोऽळूचुचु(ऽक्रुञ्चञ्चु)दितः [२।१।११५] कुञ्च-[अञ्च्]-उदिद्वर्जस्य उपान्त्यनस्य लुक् स्यात्, न तु घुटि । महतः । श्रेयः । अकुंचुंचु(अकुञ्चञ्चु)दित इति किम् ? कुञ्चा। साध्वञ्चा। सुकन्भ्याम् ।
अवर्णादश्नो वाऽन्तुरीङ्योः [२।१।११६] भावर्जादवर्णात् परस्यान्तुरुपान्त्यनो लुग् वा स्यात् ई-ङयोः । तुदती तुदन्ती कुले स्त्री वा । एवं भाती भान्ती । अवर्णादिति किम् ? अदती । [अ]श्न इति किम् ? लुनती ।
न श्यशवः [२।१।११७] श्याच्छवश्च परस्यान्तुरीङयोः परयोरुपान्त्यनो लुग् न स्यात् । दीव्यन्ती । पचन्ती।" उपरिनिर्दिष्टादर्शत्रयानुसारेण प्राचीने सिद्धहेमचन्द्रशब्दानुशासने एवंविधानि सूत्राणि आसन् -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org