________________
न स्तं मन्त्वर्थे [१।१।२३], डत्यन्तु संख्यावत् [१११/३९], अभ्वादेरन्त्वसः सौ [११४/९०], संस्-ध्वंस्-क्वस्वनडुहो दः [२।११६८], मावर्णोपान्तपञ्चमवर्गान् मन्तोर्मो वः [२।१।९४], क्वंसुष् मन्तौ च [२।१।१०५], अघुटयुपान्त्यनोऽक्रुञ्चञ्चुदितः [२।११११५], अवर्णादश्नो वान्तुरीङयोः [२-१-११६], न श्यशवः [२।१।११७], तृन्नुदन्ताव्यय-क्वस्वाना-ऽन्तृश्-शन्तृ-ङि-णकच्-खलर्थस्य [२/२/९०], अनजिरादिबहुस्वर-शरादीनां मन्तौ [३।२/७८], नवाद्यानि शन्तृवंम् च परस्मैपदम् [३।३।१९], घसेकस्वरातः क्वंसु-कानौ तद्वत् [५/२/२], शन्त्रानशावेष्यति तु सस्यौ [५/२/२०], वा वेत्तेः क्वंसुः [५/२/२२], धारीडोऽकृच्छ्रेऽन्तृश् [५/२/२५], वाऽन्तोरिकः [६।४।१३२], इदंकिमोऽन्तुरिय किय चास्य [७।१।१४८], अन्तोरिथट् [७।१।१६१], तदस्यास्त्यस्मिन्निति मन्तुः [७/२।१], भवन्त्वायुष्मदीर्घायुर्देवानांप्रियैकार्थात् [७/२।९१], प्रायोऽन्तोसट्मात्रट् [७/२।१५५], गुणाङ्गाद्वेष्ठेयंसू [७३।९], कुमारीक्रीडनेयंसोः [७।३।१६], वयसि दन्तस्य दन्तृः [७/३।१५१], ईयंसोः [७।३।१७७], विन्मन्तोर्णीष्ठेयंसौ लुप् [७४/३२]
वृत्तावपि च एतदनुसारेणैव सर्वत्र पाठ आसीत् । प्राचीनतमादर्शावलोकनादेतत् स्पष्टमेवावसीयते ।
इयं च 'शन्तृ' इत्यादिरूपा 'न्' उपान्त्यवती प्रक्रिया कातन्त्रव्याकरणेऽस्त्येव । आचार्यश्रीहेमचन्द्रसूरिभिरपि इयमेव आदौ स्वीकृता, किन्तूत्तरावस्थायां तैरेव परिवर्त्य 'शतृ' इत्यादिरूपा विहितेति प्रतीयते । पाणिनीयव्याकरणे धातूनां रूपाणि 'लट्, लिट्, लुट्, लुट्, लेट्, लोट्, लङ्, लिङ्, लुङ्, लुङ्' इति दशलकारानुसारेण भवन्ति, तत्र 'लेट्' प्रत्यया वैदिकसंस्कृतशब्देष्वेव प्रयुज्यन्ते, अतो लौकिकसंस्कृतशब्देषु नवैव लकाराः, अतो 'लोट्' प्रत्ययानां पञ्चमी इति 'लिङ्' प्रत्ययानां च सप्तमी इति संज्ञा कातन्त्रे स्वीकृता । आचार्यश्रीहेमचन्द्रसूरिभिरपि सैव आदृता । किञ्च, जुहोत्यादिगणस्य अदादिगणेऽन्तर्भावं विधाय नवैव गणाः कातन्त्रे स्वीकृताः । एवमेव हैमव्याकरणेऽपि । एवमनेकेषु स्थलेषु कातन्त्रव्याकरणानुसरणं सिद्धहेमचन्द्रशब्दानुशासने दृश्यते । कातन्त्रव्याकरणं वैक्रमे प्रथमे शतके ततः प्राग् वा विरचितं शर्ववर्मणा इति संशोधकाः कथयन्ति । एतच्च गूर्जरभाषायां लिखितायां प्रस्तावनायां [पृ० ६-११] विस्तरेण चर्चितमस्माभिः । विशेषतो जिज्ञासुभिस्तत्र विलोकनीयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org