SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ मम दिवंगतोऽन्तेवासी वयोवृद्धो देवतुल्यो मुनिदेवभद्रविजयः सदा मे मानसिकं बलं पुष्णाति । ममातिविनीतोऽन्तेवासी मुनिधर्मचन्द्रविजयः तच्छिष्यश्च मुनिपुण्डरीकरत्नविजयः मुद्रितप्रारम्भिकपत्रसमूह (प्रुफ) पठन - परिशिष्टविधानादिषु अनेकविधेषु कार्येषु महद् महत् साहायकमनुष्ठितवन्तौ । मम मातुः साध्वीश्री मनोहर श्रियः शिष्यायाः साध्वीश्री सूर्यप्रभाश्रियः शिष्यया साध्वीश्री जिनेन्द्रप्रभाश्रिया पाठभेदसंग्रहादिकं प्रभूतं प्रभूतं कार्यं महता महता परिश्रमेण विहितम् । पाटणनिवासिन: त्रिक्रमलालात्मजश्रेष्ठिश्रीब्रजलालमहोदयस्य सुपुत्रः मयूर : कोम्प्युटरद्वारा सर्वमिदं महता परिश्रमेण मुद्रितवान् । मम मातुः पुण्यनाम्ना संकलितायां माता साध्वीजी श्रीमनोहरश्रीजीजन्मशताब्दीजैनग्रन्थमालायां द्वितीयपुष्परूपेण ग्रन्थोऽयं प्रकाश्यत इति मे महानानन्दः । आमुखम् परमकृपालूनां परमेश्वराणां देवाधिदेवश्री शतेश्वरपार्श्वनाथप्रभूणां परमोपकारिणां पूज्यपादानां पितृचरणानां सद्गुरुदेवानां मुनिराज श्री भुवनविजयजीमहाराजानां चरणेषु अनन्तश: प्रणिपातं विधाय येषां परमात्मनां कृपया साहाय्याच्च कार्यमिदं सिद्धं तेषां परमकृपालूनां श्रीसिद्धाचलतीर्थे मूलनायकरूपेण विराजमानानां श्री ऋषभदेवभगवतां करकमलमेतद्ग्रन्थात्मकेन पुष्पेण पूजयित्वा अद्य परमानन्दमनुभवामि । विक्रमसंवत् २०५१ मार्गशीर्षकृष्णद्वितीया (मम मातुर्जन्मतिथिः) भौमवासरः ता. २०१२-९४ पालीताणा (गुजरातराज्यम्) Pin 364270 Jain Education International इत्यावेदयति - पूज्यपादाचार्यदेवश्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकारपूज्यपादाचार्यदेवश्रीमद्विजयमेघसूरीश्वरशिष्य पूज्यपादगुरुदेवमुनिराजश्रीभुवनविजयान्तेवासी मुनि जम्बूविजयः For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy