SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ आमुखम् चाऽगृहीतानि तेषां सूचि: पृथगेवात्र प्रदत्ता, जिज्ञासुभिरवश्यं सा विलोकनीया । अस्मिन् ग्रन्थे सिद्धहेमचन्द्रशब्दानुशासनस्य सप्ताध्याय्याः संपूर्णः सूत्रपाठोऽपि अस्माभिः पृथगुपन्यस्त इति कानि कानि सूत्राणि अत्र रहस्यवृत्तौ यथाक्रमं न गृहीतानि न च व्याख्यातानि तदपि स्पष्टं ज्ञास्यते पठितृभिः । पठितॄणां संशोधकानां चानुकूल्याय सप्ताध्यायीसूत्राणामकारादिक्रमोऽपि अत्र पृथगुपन्यस्तः । किञ्चान्यत्, वैक्रमे १२१८ संवत्सरे लिखिते तालपत्रात्मके प्राचीने हस्तलिखितादर्शे कानिचित् पत्राणि त्रुटितानीति द्वाविंशतिर्नवानि पत्राणि केनचित् पश्चात् संयोजितानि । तानि चेमानि ३, ५, १७-१९, ४८, ५२, ५३, ६१-६४, ७१, १००, ११८, १२०, १३५, १३७, १३८, १५०, १५८, १६० A । नवीनपत्राणां प्रारम्भे + ईदृशं चिह्नम्, समाप्तौ च + + ईदृशं चिह्नमस्यां रहस्यवृत्तावस्माभिः उपन्यस्तम् । अतः + ++ एतच्चिह्नान्तर्गत: पाठो नूतनतालपत्रसत्क इति ज्ञेयम् । प्राचीनेषु तालपत्रेषु प्रायः शुद्धः पाठः, नूतनेषु तालपत्रेषु अशुद्धपाठा अपि बहवो दृश्यन्त इत्यपि ध्येयम् । ये केचन पाठा मूलादर्शे नासन् किन्तु पश्चात् केनचित् पत्रस्य उपरितने भागे अधस्तने भागे पार्श्वयोर्वा संशोध्य संस्कृत्य वा निर्दिष्टास्ते पाठाः टिप्पणेषु सं० इति रूपेण सं० इति संकेतेन सह अस्माभिरत्र निर्दिष्टाः, ये तु मूलादर्शस्थाः पाठास्ते मू० इत्येवं मू० इति संकेतेन सह निर्दिष्टाः । महता प्रयत्नेन विहितेऽपि संशोधने या: काश्चन अशुद्धयः अस्माकं मतिदोषाद् दृष्टिदोषाद्वा जाता यदि दृष्टिगोचरा भवेयुः तर्हि ताः स्वयमेव पठितृभिः प्रमार्जनीया अस्मभ्यमपि च निवेद्याः । वयं तेषामुपकारं मंस्यामहे । अस्य ग्रन्थस्य संशोधने सम्पादने च यतो यतः किमपि साहायकं लब्धं तेभ्यः सर्वेभ्यो भूयो भूयो धन्यवादान् वितरामि, विशेषतस्तु इमानत्र वयं संस्मरामः । परमोपकारिणी परमपूज्या वयोवृद्धा मम माता साध्वीश्रीमनोहरश्रीरिहलोक-परलोककल्याणकारिभिराशीर्वचनैर्निरन्तरं महत् साहायकं सर्वैः प्रकारै र्विधत्ते । Jain Education International ४ A For Private & Personal Use Only - www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy