SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २१२ स्वोपज्ञरहस्यवृत्तिविभूषितं सप्तम्या पूर्वस्य ।७।४।१०५॥ सप्तम्या निर्दिष्टे यत् कार्यमुक्तं तत् पूर्वस्याऽव्यवधे: स्यात् । दध्यत्र । इह न भवति, समिदत्र ।।३८॥ षष्ठयाऽन्त्यस्य ।७४।१०६॥ षष्ठया निर्दिष्टे यदुक्तं तत् षष्ठयुक्तस्य योऽन्त्यस्तस्य स्यात् । अष्टाभिः ।।३९।। अनेकवर्णः सर्वस्य ।७४।१०७॥ अयं विधि: षष्ठयोक्तस्य सर्वस्यैव भवति । तिसृभिः ॥४०॥ प्रत्ययस्य ।७४।१०८॥ प्रत्ययस्थानिनो विधि: सर्वस्य स्यात् । सर्वे ।।४१॥ स्थानीवाऽवर्णविधौ ।७।४।१०९॥ आदेश आदेशिदेशीय: स्यात्, न चेत् स्थानिवर्णाश्रयं कार्यम् । भव्यम्, कस्मै, राजा, प्रकृत्य । अवर्णविधाविति किम् ? द्यौः, क इष्टः, प्रदीव्य ॥४२|| स्वरस्य परे प्राग्विधौ ।७।४।११०॥ स्वरस्यादेश: परे परनिमित्तक: पूर्वस्य विधौ विधेये स्थानीव स्यात् । कथयति, पादिकः, संस्यते । पर इति किम् ? द्विपदिकां दत्ते । प्राग्विधाविति किम् ? नैधेयः ।।४३।। न सन्धि-की-य-क्वि-द्वि-दीर्घा-ऽसद्विधावस्क्लुकि ।।४।१११॥++ सन्धिविधौ [डीविधौ] यविधौ क्विविधौ द्वित्वविधौ दीर्घविधौ संयोगस्यादौ स्कोर्लुक् [२।११८८] इति स्क्लुग्वर्जे चाऽसद्विधौ स्वरस्याऽऽदेश: स्थानीव न स्यात् । सन्धि- वियन्ति, डी- बिम्बम्, य- कण्डूति:, कि- दयू:, द्वि- दद्धयत्र, दीर्घ- शामं शामम्, [असद्विधौ]- यायष्टिः । अस्क्लुकीति किम् ? सुकू:, काष्ठता ॥४४|| लुप्यय्वृल्लेनत् ।७४।११२॥ प्रत्ययस्य लुपि लु[ब्भूतपरनिमित्तकं पूर्वं कार्यं न स्यात्, य्वृत् लम् एनच्च मुक्त्वा । तद्, गर्गाः । लुपीत्युक्ते लुकि स्यादेव, गोमान् । अय्वृल्लेनदिति किम् ? जरीगृहीति, निजागलीति, एनत् पश्य ।।४५।। विशेषणमन्तः ।७।४।११३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy