________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२११
वीप्सायाम् ।७४।८०॥ अस्यां वर्तमानं द्वि: स्यात् । वृक्षं वृक्षं सिञ्चति, ग्रामो ग्रामो रमणीयः ॥२९।।
प्लुप् चादावेकस्य स्यादेः ।७४८१॥ एकस्य वीप्सायां व्युक्तस्याद्यस्य स्यादेः पिल्लुप् स्यात् । एकैकस्याः ॥३०॥
द्वन्द्वं वा ।७४।८२॥ वीप्सायां व्युक्तस्य द्वेरादेः स्यादेर्लुप् स्यात्, एश्वाऽम्, उत्तरत्रेतोऽत्वं स्यादेश्चाऽम् वा निपात्यः । द्वन्द्वं द्वौ द्वौ वा तिष्ठतः ॥३१।।
लोकज्ञातेऽत्यन्तसाहचर्ये ।७।४।८४॥ अत्र द्योत्ये द्वे: पूर्ववद् द्वन्द्वमिति निपात्यम् । द्वन्द्वं रामलक्ष्मणौ ॥३२।।
प्रिय-सुखं चाकृच्छ्रे ।७४/८७॥ ___ एतावक्लेशार्थौ वा द्वि: स्याताम्, आदौ स्यादेर्लुप् च । [प्रियप्रियेण,] प्रियेण वा दत्ते ; सुखसुखेन, सुखेन वाऽधीते ।।३३।।
वाक्यस्य परिर्वर्जने ।७४।८८॥ वर्जनाओं वाक्यांश: परिर्वा द्वि: स्यात् । परि परि, परि वा त्रिगर्तेभ्यो वृष्टो मेघः । वाक्यस्येति किम् ? परित्रिगर्तं वृष्टो मेघ: ॥३४।।
क्षिया-ऽऽशीः-प्रेषे ।।४।९२॥ क्षिया आचारे भ्रष: । एतद्वृत्तेर्वाक्यस्य स्वरेष्वन्त्य: स्वर: त्याद्यन्तस्य वाक्यान्तराकाङ्कस्यांश: प्लुतो वा स्यात् । स्वयं ह रथेन याति [३ याति वा, उपाध्यायं पदातिं गमयति । सिद्धान्तमध्येषीष्ठा: ३ अध्येषीष्ठा वा, तर्कं च तात ! । कटं च कुरु ३ कुरु वा, ग्रामं च गच्छ] ।।३।।
ओमः प्रारम्भे ।४।९६॥ ओमः प्रणामाद्यर्थाभ्याद(दा)नार्थस्य स्वरेष्वन्त्यः स्वर: प्लुतो वा स्यात् । ओ [३] म् ओम् वा ऋषभ[मृषभ]गामिनं प्रणमत ॥३६।।
पञ्चम्या निर्दिष्टे परस्य ।७।४।१०४॥ पञ्चम्या निर्दिष्टे यत् कार्यमुक्तं तत् परस्याऽव्यवधे: स्यात् । अतो भिस ऐस् [१।४।२] वृक्षैः, इह मा भूत्, मालाभिरत्र, दृषद्भिः ।।३७||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org