________________
२१०
स्वोपज्ञरहस्यवृत्तिविभूषितं
औक्ष्ण: षादिहन्धृतराज्ञोऽणि [२।१।११०] इत्यनोऽस्य लुक् स्यात् ।।१९।।
नोऽपदस्य तद्धिते ।७४।६१॥ नन्तस्यापदस्य तद्धिते परेऽन्त्यस्वरादेर्लुक् स्यात् । मैधाव: । अपदस्येति किम् ? मेधाविरूप्यम् ।।२०।।
विंशतेस्तेर्डिति ।७।४।६७॥ अस्यापदस्य तेर्डिति तद्धिते लुक् स्यात् । विंशक: पट: ॥२१॥
व अवर्णेवर्णस्य ।७४।६८॥ एतदन्तस्यापदस्य तद्धिते लुक् स्यात् । दाक्षिः, चौडिः, नाभेयः, दौलेयः । अपदस्येति किम् ? ऊर्णायुः ।।२२।।
अकद्रू-पाण्ड्वोरुवर्णस्यैये ।।४।६९॥ एतद्व|वर्णान्तस्य अपदस्य एये तद्धिते लुक् स्यात् । जाम्बेय: । कवादिवर्जन किम् ? काद्रवेय:, शुभ्रादिभ्यः [६।१।७३] इत्येयण् । पाण्डवेयः ॥२३॥
अस्वयम्भुवोऽव् ।७४।७०॥ स्वयंभूव|वर्णान्तस्यापदस्य तद्धितेऽव् स्यात् । औपगव: । अस्वयम्भुव इति किम् ? स्वायम्भुवः ।।२४।।
भृशा-ऽऽभीक्ष्ण्या-ऽविच्छेदे द्विः प्राक् तमबादेः ।७।४।७३॥ क्रियायाअवयवक्रियाणांकात्स्न्य॑भृशार्थः,+पौन:पुन्यमाभीक्ष्ण्यम्, क्रियान्तराव्यवधानमविच्छेदः, एषु द्योत्येषु पदं वाक्यं वा तमबादेः प्राग् द्वि: स्यात् । लुनीहि लुनीहीत्येवाऽयं लुनाति, भोजं भोजं याति, प्रपचति प्रपचति ।।२५।।
नानावधारणे।७४।७४॥ नानाभूतानामियत्तापरिच्छेदे गम्ये शब्दो द्वि: स्यात् । अस्मात् कार्षापणादिह भवद्भ्यां माषं माषं देहि ।।२६।।
आधिक्या-ऽऽनुपूर्ये ।७।४।७५॥ एतद्वृत्ति द्वि: स्यात् । नमो नमः, मूले मूले स्थूला: ।।२७||
सामीप्येऽधोऽध्युपरि ७४।७९॥ एते सामीप्येऽर्थे द्वि: स्युः । अधोऽध:, अध्यधि, उपर्युपरि ग्रामम् ॥२८||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org