________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
अभेदेनोक्तोऽवयवो विशेषणं विशेष्यस्य समुदायस्यान्तः स्यात् अतः स्यमोऽम्
[ १/४/५७ ] कुण्डम् । इह न स्यात्, तद् ॥४६॥ सप्तम्या आदिः | ७|४|११४॥
सप्तम्यन्तविशेष्यस्य यद् विशेषणं तत् तस्याऽऽदिः स्यात् । इन् ङीस्वरे लुक् [१/४/७९] पथः । इह मा भूत्, पथिषु ||४७ || प्रत्ययः प्रकृत्यादेः ।७|४|११५॥
यस्माद् यः प्रत्ययो विधीयते सा तस्य प्रकृतिः, प्रत्ययः प्रकृत्यादेः समुदायस्य विशेषणं स्यात्, नोनाधिकस्य | मातृभोगीणः || ४८||
परः | ७|४|११८॥
प्रत्ययः प्रकृतेः पर एव स्यात् । अजा, वृक्षः, जुगुप्सते ||४९|| स्पर्द्धे |७|४|११९॥
२१३
तत्र
द्वयोर्विध्योरन्यत्र सावकाशयोस्तुल्यबलयोरेकत्रानेकत्र चोपनिपातः स्पर्द्धः, यः सूत्रपाठे परः स विधिः स्यात् । वनानि अत्र शसोडता सश्च नः पुंसि [ १/४/४९ ] इत्यतो नपुंसकस्य शि: [ १/४/५५ ] इत्येव स्यात् ||५० ॥
,
आसन्नः |७|४|१२०॥
अत्र
यथास्वं स्थाना-ऽर्थ-प्रमाणादिभिरासन्न एव विधि: स्यात् । दण्डाग्रम्, कण्ठ्ययोरतोः कण्ठ्य एव आ दीर्घः स्यात् । वातण्ड्ययुवति:, वा (व) तण्ड्याः पुंवद्भावेऽर्थत आसन्नो वा [तण्ड्यः ] स्यात् । अमुष्मै, मादुवर्णोऽनु [२/१/४७ ] इति मात्रिकस्य मात्रिकः ||५१||
समर्थः पदविधिः | ७|४|१२२॥
समर्थपदाश्रयत्वात् समर्थ:, पदसम्बन्धी विधिः सर्वः पदविधि: समर्थों ज्ञेयः, सामर्थ्यं च व्यपेक्षा एकार्थीभावश्च । पदविधिस्तु समास- नामधातु कृत्तद्धितोपपदविभक्ति- युष्मदस्मदादेश- प्लुतरूपः I धर्मश्रितः, पुत्रीयति, कुम्भकारः, औपगवः, नमो देवेभ्यः, धर्मस्ते स्वम्, धर्मो मे स्वम्, [अङ्ग ! कूज३ इदानीं ज्ञास्यसि जाल्म ! | ] समर्थ इति किम् ? पश्य धर्मं श्रितो मैत्रो गुरुकुलम्, पश्यति पुत्रमिच्छति सुखम् पश्य कुम्भं करोति कटम्, गृहमुपगोरपत्यं तव, इदं नमो देवाः ! शृणुत, ओदनं पच तव मम वा भविष्यति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org