SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं बहुव्रीहेः काष्ठे टः ।।३।१२५॥ काष्ठार्थादगुल्यन्ताद् बहुव्रीहे: टः स्यात् । व्यङ्गुलं काष्ठम् । काष्ठ इति किम् ? पञ्चाङ्गुलिहस्तः ॥४६।। प्रमाणी-संख्याड्डः ।७।३।१२८॥ प्रमाण्यन्तात् सङ्ख्यार्थाच्च बहुव्रीहेर्ड: स्यात् । स्त्रीप्रमाणा: कुटुम्बिन:, द्वित्रा: ॥४७|| पूरणीभ्यस्तत्प्राधान्येऽप् ।७।३।१३०॥ पूरणप्रत्ययान्ता या स्त्री तदन्ताद् बहुव्रीहेरप् स्यात्, पूरण्याः प्राधान्ये समासार्थत्वे सति । कल्याणीपञ्चमा रात्रयः । तत्प्राधान्य इति किम् ? कल्याणपञ्चमीक: पक्ष: ॥४८॥ । सु-पूत्युत्-सुरभेर्गन्धादिद् गुणे।७३।१४४॥ एभ्य: परो गुणार्थो यो गन्धस्तदन्ताद् बहुव्रीहेरित् स्यात् । सुगन्धि, पूतिगन्धि, उद्गन्धि, सुरभिगन्धि द्रव्यम् । गुण इति किम् ? द्रव्ये सुगन्ध आपणिकः ॥४९।। वोपमानात् ।७७३।१४७॥ उपमानात् परोयो गन्धस्तदन्ताबहुव्रीहेरिद्वा स्यात्। उत्पलगन्धि उत्पलगन्धं मुखम् ।।५०॥ पात् पादस्याऽहस्त्यादेः ।७।३।१४८॥ हस्त्यादिवर्जादुपमानात् परस्य पादस्य बहुव्रीहौ पात् स्यात् । व्याघ्रपात् । अहस्त्यादेरिति किम् ? हस्तिपाद:, अश्वपादः ॥५१।। सु-संख्यात् ।।३।१५०॥ सो: संख्यायाश्च परस्य पादस्य बहुव्रीहौ पात् स्यात् । सुपात्, द्विपात् ।।५२।। स्त्रियामूधसो न् ।७।३।१६९॥ स्त्र्यर्थस्योधसो बहुव्रीहौ न् स्यात् । कुण्डोध्नी गौः ॥५३॥ इनः कच् ।७।३।१७०॥ इन्नन्ताद् बहुव्रीहे: स्त्र्यर्थात् कच् स्यात् । बहुदण्डिका सेना ||५४|| ऋनित्यदितः ।७।३।१७१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy