SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् पञ्चखारीधनः ||३६|| वाच |७|३|१०३॥ अर्धशब्दात् परा या खारी तदन्तसमासादलुकोsट् वा स्यात् । अर्धखारम्, अर्धखारी ||३७|| नाव: |७|३|१०४॥ अर्धात् परो यो नौस्तदन्तात् समासाद् द्विगोश्चाऽलुकोऽट् वा स्यात् । अर्धनावम्, अर्धनावी, पञ्चनावम् । अलुक इत्येव, द्विनौः ||३८|| गोस्तत्पुरुषात् । ७|३|१०५ ॥ गवन्तात् तत्पुरुषादलुकोट् स्यात् । राजगवी । तत्पुरुषादिति किम् ? चित्रगुः | अलुक इत्येव, पञ्चगुः पटः ||३९|| राजन्-सखेः | ७|३|१०६॥ एतदन्तात् तत्पुरुषादट् स्यात् । पञ्चराजी, राजसखः ||४०|| अह्नः ।७।३।११६॥ अहन्नन्तात् तत्पुरुषादट् स्यात् । परमाहः || ४१ || २०५ संख्यातादह्नश्च वा । ७|३॥११७॥ सङ्ख्यातात् परो योsहा तदन्तात् तत्पुरुषादट् स्यात्, अह्न [श्व] वाह्न [ : ] । सङ्ख्याताह्नः, सङ्ख्याताहः ||४२|| सर्वांश संख्या- sव्ययात् ।७।३।११८।। Jain Education International - सर्वादंशार्थात् संख्यार्थादव्ययाच्च परो योऽहा तदन्तात् तत्पुरुषादट् स्यात्, अह्नश्चाह्नः । सर्वाह्णः, पूर्वाह्नः, द्वयह्नः पटः, अत्यह्नी कथा ||४३|| नञव्ययात् संख्याया डः |७|३|१२३॥ आभ्यां परो यः सङ्ख्चार्थस्तदन्तात् तत्पुरुषाद् ङः स्यात् । अदशाः, निस्त्रिंशः खड्गः ||४४|| संख्या-ऽव्ययादङ्गुलेः ।७|३|१२४॥ आभ्यां परो योऽङ्गुलिस्तदन्तात् तत्पुरुषाद् ङः स्यात् । द्व्यङ्गुलम्, निरङ्गुलम् ॥४५॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy