________________
२०४
स्वोपज्ञरहस्यवृत्तिविभूषितं
इज् युद्धे ।।३।७४॥ युद्धे य: समास उक्तस्तस्मादिच् समासान्त: स्यात् । केशाकेशि ।।२८।।
ऋक्-पू:-पथ्यपोऽत् ।।३।७६॥ ऋगाद्यन्तात् समासाद: समासान्त: स्यात् । अर्धर्चः, त्रिपुरम्, जलपथ:, द्वीपम् ।।२९।।
जात-महद्-वृद्धादुक्ष्णः कर्मधारयात् ।।३।९५॥ एभ्य: परो य उक्षा तदन्तात् कर्मधारयादत् स्यात् । जातोक्षः, महोक्षः, वृद्धोक्षः । कर्मधारयादिति किम् ? जातस्योक्षा जातोक्षा ॥३०॥
स्त्रियाः पुंसो द्वन्द्वाच्च ।।३।९६॥ स्त्रिया: परो य: पुमान् तदन्तात् द्वन्द्वात् कर्मधारयाच्चाऽत् स्यात् । स्त्रीपुंसौ, स्त्रीपुंसः ॥३१॥
चवर्ग-द-ष-हः समाहारे ।७३॥९८॥ एतदन्ताद् द्वन्द्वात् समाहारार्थादत् स्यात्। वाक्त्वचम्, संपद्विपदम्, वाक्त्विषम्, छत्रोपानहम् । समाहार इति किम् ? प्रावृट-शरभ्याम् ।।३२।।
द्विगोरन्नह्नोऽट् ।७।३।९९॥ अन्नन्तादहन्नन्ताच्च समाहारार्थाद् द्विगोरट् स्यात् । पञ्चतक्षी, पश्चतक्षम्, द्व्यहः । द्विगोरिति किम् ? समहा: ।।३३।।
द्वि-रायुषः ।७।३।१००॥ आभ्यां परो य आयुस्तदन्तात् समाहारद्विगोरट् स्यात् । व्यायुषम्, त्र्यायुषम्
||३४||
वाऽञ्जलेरलुकः ।।३।१०१॥ द्वित्रिभ्यां परो योऽञ्जलिस्तदन्ताद् द्विगोरट्वा स्यात्, न चे द्विगुस्तद्धितलुगन्तः । व्यञ्जलम्, व्यञ्जलि ; व्यञ्जलमयम्, त्र्यञ्जलिमयम् । अलुक इति किम् ? द्वयञ्जलिर्घटः ॥३५॥
खार्या वा ।७।३।१०२॥ खार्यन्ताद् द्विगोरलुकोऽट् वा स्यात् । द्विखारम्, द्विखारि ; पञ्चखारधनः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org