________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
२०३
अनुकम्पायां तद्युक्तायां च नीतौ गम्यायां यथायोगं कबादयः स्युः ।] पुत्रक:, स्वपिषकि, पुत्रक ! एहकि, उत्सङ्गके उपविश, कर्दमकेनाऽसि दिग्धकः ।।१९।।
वैकाद् द्वयोर्निर्धार्ये डतरः ।।३।५२॥ एकाद् द्वयोः निर्धार्यार्थाद् डतरो वा स्यात् । एकतरः, एकको वा भवतो: कठ: पटुर्गन्ता चैत्रो दण्डी वा ।।२०।।
यत्-तत्-किमन्यात् ।७॥३॥५३॥ __ एभ्यो द्वयोरेकस्मिन्निर्धायै ऽर्थे] वर्त्तमानेभ्यो डतर: स्यात् । यतरो भवतो: कठादिस्ततर आगच्छेत्, एवं कतरः, अन्यतर: ।।२१।।
बहूनां प्रश्ने डतमश्च वा ।७।३।५४॥ यदादिभ्यो बहूनां मध्ये निर्धार्यार्थेभ्य: प्रश्ने डतमो डतरश्च वा स्यात् । यतमो यतरो वा भवतां कठस्ततमस्ततरो वा यातु, एवं कतमः, कतरः, अन्यतमः, अन्यतरः, पक्षे यको यो वा, सकः स वा भवतां कठ इत्यादि ।।२२।।
. वैकात् ।७३।५५॥ एकाद् बहूनां मध्ये निर्धार्यार्थात् डतमो वा स्यात् । एकतमः, एककः, एको वा भवतां कठ: ।।२३।।
नित्यं त्र-जिनोऽण् ।७।३।५८॥ ञ-जिनन्तात् स्वार्थे नित्यमण् स्यात् । व्यावक्रोशी, साङ्कोटिनम् ।।२४।।
समासान्तः ।।३।६९॥ अतः परं विधास्यमानं समासस्यावयव: स्यात्, ततस्तस्य तत्तत्समाससंज्ञा । सुजम्भे, सुजम्मानौ स्त्रियौ, उपधुरम्, द्विधुरी, सक्त्वचिनी ।।२५।।
न किमः क्षेपे ।७।३।७०॥ निन्दार्थात् किम: परं यद् ऋगादिस्तदन्तात् समासात् समासान्तो न स्यात् । किंधू:, किंसखा । क्षेप इति किम् ? केषां राजा किंराजः ।।२६।।
पूजास्वतेः प्राक् टात् ।।३।७२॥ पूजार्थस्वतिभ्यां परं यद् ऋगादि तदन्तात् टात् प्राग् यः समासान्त: स न स्यात् । सुधूः, अतिधूरियम् । पूजेति किम् ? अतिराजोऽरि: । प्राक् टादिति किम् ? स्वङ्गुलं काष्ठम् ।।२७।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org