________________
२०२
स्वोपज्ञरहस्यवृत्तिविभूषितं
त्यादेश्च प्रशस्ते रूपप् ।७।३।१०॥ त्याद्यन्ताद् नाम्नश्च प्रशस्तार्थाद्रूपप् स्यात् । पचतिरूपम्, दस्युरूपः॥१०॥
अतमबादेरीषदसमाप्ते कल्पब्-देश्यब्-देशीयर् ।॥३॥११॥
किञ्चिदसमाप्तार्थात् त्याद्यन्तात् नाम्नश्च तमबाद्यन्तवर्जादेते स्युः । पचतिकल्पम्, पचतिदेश्यम्, पचतिदेशीयम् ; पटुकल्पा, पटुदेश्या, पटुदेशीया
॥११॥
यावादिभ्यः कः ॥७॥३॥१५॥ स्वार्थे स्यात् । यावकः, मणिकः ।।१२।।
एकादाकिन् चासहाये ।।३।२७॥ असहा[या]र्थादेकाद् आकिन् कश्च स्यात् । एकाकी, एककः ।।१३।।
प्राग नित्यात् कप् ।७।३।२८॥ नित्यशब्दसङ्कीर्तनात् प्राग् येऽर्थास्तेषु द्योत्येषु कप् अधिकृतो ज्ञेयः । कुत्सितोऽल्पोऽज्ञातो वाऽश्व: अश्वकः ।।१४।।
त्यादि-सर्वादेः स्वरेष्वन्त्यात् पूर्वोऽक् ।।३।२९॥ त्याद्यन्तस्य, सर्वादेश्च स्वराणां मध्ये योऽन्त्यस्वरस्तस्मात् पूर्वोऽक् स्यात्, प्राग् नित्यात् । कुत्सितमल्पमज्ञातं वा पचति [पचतकि,] सर्वके, विश्वके ।१५।।
युष्मदस्मदोऽसोभादिस्यादेः ॥७३॥३०॥ अनयो: स्-ओ-भादिवर्जस्याद्यन्तयो: स्वरेष्वन्त्यात् पूर्वोऽक् स्यात् । त्वयका, मयका । असोभादिस्यादेरिति किम् ? युष्मकासु, युवकयो:, युवकाभ्याम् ।।१६।।
अव्ययस्य को न च ।७।३॥३१॥ प्राग् नित्याद् येऽर्थास्तेषु द्योत्येष्वव्ययस्य [स्वरेष्वन्त्य]स्वरात् पूर्वोऽक् स्यात् तद्योगे चास्य को द् । कुत्सिताधुचैः उच्चकैः, एवं धिक् धकिद् ।।१७।।
कुत्सिता-ऽल्पा-ऽज्ञाते ।७।३॥३३॥ कुत्सिताद्युपाधिकार्थाद् यथायोगं कबादय: स्युः। [अश्वकः, पचतकि, उच्चकैः ||१८||
अनुकम्पा-तद्युक्तनीत्योः ।७।३।३४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org