________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१९७
अनद्यतने हिः ।।२।१०१॥ ड्यन्तादनद्यतनकालार्थाद् यथासम्भवं किमद्वयादिसर्वाद्यवैपुल्यबहो: हि: स्यात् । कर्हि, यर्हि, अमुर्हि, बहुर्हि ।।२९।।
प्रकारे था ।७।२।१०२॥ प्रकारार्थात् सम्भवा(व)त्स्याद्यन्तात् किमद्वयादिसर्वाद्यवैपुल्यबहोः था स्यात् । सर्वथा, अन्यथा ॥३०॥
कथमित्थम् ।।२।१०३॥ एतौ प्रकारे निपात्यौ ।।३१।।
सङ्ख्याया धा ।७।२।१०४॥ सङ्ख्यार्थात् प्रकारवृत्तेर्धा स्यात् । एकधा, कतिधा ।।३२।।
वारे कृत्वस् ।७।२।१०९॥ वारवृत्तेः संख्यार्थाद् वारवति धात्वर्थे कृत्वस् स्यात् । पञ्चकृत्वो भुङ्क्ते ।।३३।।
द्वि-त्रि-चतुरः सुच् ।७।२।११०॥ एभ्यो वारार्थेभ्यस्तद्वति सुच् स्यात् । द्विः, त्रिः, चतुर्भुङ्क्ते ॥३४।।
एकात् सकृच्चास्य ।७।२।१११॥ अस्माद् वारार्थात् तद्वति सुच् स्यात्, सकृच्चाऽस्य । सकृद् भुङ्क्ते ।।३।।
कृ-भ्वस्तिभ्यां कर्म-कर्तृभ्यां प्रागतत्तत्त्वे चिः ।७।२।१२६॥ कर्मार्थात् कृगा योगे, कर्थाच्च भ्वस्तियोगे प्रागभूततद्भावे गम्ये च्चि: स्यात् । शुक्लीकरोति पटम्, शुक्लीभवति, शुक्लीस्यात् पट: । प्रागिति किम् ? अशुक्लं शुक्लं करोत्येकदा ॥३६।। .
व्याप्तौ स्सात् ।।२।१३०॥ कृ-भ्वस्तिभ्यां कर्म-कर्तृभ्यां प्रागतत्तत्त्व इति विषये सादिः सात् स्यात्, व्याप्तौ प्रागत[त्तत्त्वस्य सर्वात्मना द्रव्येण सम्बन्धे गम्ये । अग्निसात् करोति काष्ठं, - अग्निसाद्भवति, अग्निसात् स्यात् ।।३७||
तत्राऽधीने।७।२।१३२॥ १. र्धा वा स्यात् Jमू० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org