________________
१९८
स्वोपज्ञरहस्यवृत्तिविभूषितं
तत्रेति ड्यन्ताद् आयत्तेऽर्थे कृ-भ्वस्ति-योगेस्सात् स्यात्। [राजसात् करोति,] राजसाद् भवति, राजसात् स्यात्, भ्वस्तिभ्यां सम्पदेरुपलक्षणात् राजसात् सम्पद्यते ||३८||
देये त्रा च ७।२।१३३॥ ङयन्ताद् देये आयत्तेऽर्थे कृ-भ्वस्ति-सम्पद्योगे त्रा: स्यात् । देवत्रा करोति द्रव्यम्, देवत्रा भवेत्, स्यात्, सम्पद्यते वा । देय इति किम् ? राजसाद् भवति, राजसात् स्याद् राष्ट्रम् ।।३९।।
____तीय-शम्ब-बीजात् कृगा कृषौ डाच् ।।२।१३५॥ तीयान्ताच्छम्ब-बीजाभ्यां च कृग्योगे कृषिविषये डाच् स्यात् । द्वितीया करोति, शम्बा करोति, बीजा करोति क्षेत्रम् । कृषाविति किम् ? द्वितीयं पटं करोति ॥४०॥ अव्यक्तानुकरणादनेकस्वरात् कृ-भ्वस्तिनाऽनितौ द्विश्च ।७।२।१४५॥
यस्मिन् ध्वनौ वर्णा विशेषरूपेण नाभिव्यज्यन्ते सोऽव्यक्तः, तदनुकरणार्थादनेकस्वराद् अनितिपरात् कृ-भ्वस्तियोगे डाच् वा स्यात्, द्विश्चास्य प्रकृतिः । पटपटा करोति, भवेत्, स्याद् वा । अनेकस्वरादिति किम् ? खाट् करोति । अनिताविति किम् ? पटिति करोति ।।४१।
इतावतो लुक् ।।२।१४६॥ अव्यक्तानुकरणस्यानेकस्वरस्य योऽदिति [तस्येति]शब्दे लुक् स्यात् । पटिति
॥४२॥
तो वा ।१२।१४८॥ द्वित्वेऽव्यक्तानुकरणस्यानेकस्वरस्यातस्तो लुग् वा स्यात् । पटत्पटेति करोति, पटत्पटदिति वा ।।४३।।
डाच्यादौ ।।२।१४९॥ अव्यक्तानुकरणस्यानेकस्वरस्याच्छब्दान्तस्य द्वित्वे सति आद्य[त]स्तो डाचि लुक् स्यात् । पटपटा करोति । आदाविति किम् ? पतपता करोति ।।४४।।
बह्वल्पार्थात् कारकादिष्टा-ऽनिष्टे शस् ।७।२।१५०॥ बह्वल्पार्थाभ्यां कारकवाचिभ्यां यथासंख्यमिष्टेऽनिष्टे च विषये प्सस् [वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org