SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं [सप्तमाध्याये द्वितीय: पाद:] ___ तदस्याऽस्त्यस्मिन्निति मन्तुः ।।२।१॥ तदिति स्यन्ताद्, अस्येति षष्ठयर्थेऽस्मिन्निति ड्यर्थे वा मन्तु: स्यात्, चेत् स्यन्तमस्तीति । गोमान्, वृक्षवान् गिरिः । अस्तीति किम् ? गावोऽस्यासन् । इतः प्रायो भूमादौ मत्वादयः ।।१।। आ यात् ।७।२।२॥ रूपात् प्रशस्ताहतात् [७२।५४] इति आ यविधेर्वक्ष्यमाणप्रकृतिभ्यो मन्तुः स्यात्, तदस्यास्ति तदस्मिन्नस्तीति विषये । कुमारीमान् ।।२।। नावादेरिकः ।।२।३॥ एभ्यो मन्त्वर्थे इक: स्यात् । नाविक:, नौमान् । एवं कुमारिक: ||३|| शिखादिभ्य इन् ।७।२।४॥ एभ्यो मन्त्वर्थे इन् स्यात् । शिखी, शिखावान् ; माली ॥४|| व्रीह्यादिभ्यस्तौ ।७।२।५॥ एभ्यो मन्त्वर्थे इकेनौ स्याताम् । व्रीहिकः ।।५।। अतोऽनेकस्वरात् ।।२।६॥ अदन्तादनेकस्वराद् मन्त्वर्थे इकेनौ स्याताम् । दण्डिकः, दण्डी, दण्डिवान् ; छत्रिकः, छत्री । अनेकस्वरादिति किम् ? खवान् ।।६।। हीनात् स्वाङ्गादः ॥७॥२॥४५॥ हीनत्वोपाधे: स्वाङ्गार्थाद् मन्त्वर्थे अ: स्यात् । कर्णः । हीनादिति किम् ? कर्णवान् ।।७।। अभ्रादिभ्यः ।७२।४६॥ एभ्यो मन्त्वर्थे अ: स्यात् । अभ्रं नमः, अर्शसो मैत्रः ।।८।। अस्-तपो-माया-मेधा-स्रजो विन् ।७।२॥४७॥ असन्तात् तपसादेश्च मन्त्वर्थे विन् स्यात् । यशस्वी, यशस्वान् ; तपस्वी, मायावी, मेधावी, स्रग्वी ।।९।। गुणादिभ्यो यः ।।२।५३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy