SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ १९२ स्वोपज्ञरहस्यवृत्तिविभूषितं स्यात् । यति, तति, कति ॥२७॥ अवयवात् तयट् ।७१।१५१॥ अवयववृत्तेः संख्यार्थात् स्यन्तात् षष्ठ्यर्थेऽवयविनि तयट् स्यात् । पञ्चतयो यमः ॥२८॥ द्वि-त्रिभ्यामयड् वा ।।१५२॥ आभ्यामवयवाभ्यां स्यन्ताभ्यां षष्ठ्यर्थेऽयड् वा स्यात् । द्वयम्, त्रयम्, द्वितयम्, त्रितयम् ।।२९|| सङ्ख्यापूरणे डट् ।७।१।१५५॥ संख्या पूर्यते येन तत्रार्थे संख्याया डट् स्यात् । एकादशी । संख्येति किम् ? एकादशानामुष्ट्रिकाणां पूरणो घट: ॥३०॥ विंशत्यादेर्वा तमट् ।४।१५६॥ अस्या: संख्यायाः संख्यापूरणे तमट् वा स्यात् । विंशतितमः, विंश: ; त्रिंशत्तमः, त्रिंशः ॥३१॥ .. षष्टयादेरसङ्ख्यादेः ।७११५८॥ संख्या आदिरवयवो यस्य तद्वर्जात् षष्टयादेः संख्यापूरणे तमट् स्यात् । षष्टितमः, सप्ततितमः । [अ]संख्यादेरिति किम् ? एकषष्टः ।।३२।। नो मट् ।।१।१५९॥ असंख्यादेर्नान्ताया: संख्याया: संख्यापूरणे मट् स्यात्। पञ्चमी। [अ] संख्यादेरित्येव, द्वादशः ॥३३॥ पित् तिथट् बहु-गण-पूग-संघात् ।।१६०॥ एभ्य: संख्यापूरणे तिथट् स्यात् पित् । बहुतिथी, गणतिथः, पूगतिथ:, सङ्घतिथ: ॥३४॥ षट्-कति-कतिपयात् थट् ।७।१।१६२॥ एभ्य: संख्यापूरणे थट् स्यात् पित् । षष्ठी, कतिथ:, कतिपयथी ॥३५॥ चतुरः ।।१।१६३॥ अस्मात् संख्यापूरणे थट् स्यात् । चतुर्थी ॥३६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy