________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
१९१
एभ्यो भावे वा इमन् स्यात् । प्रथिमा, पृथुत्वम्, पृथुता, पार्थवम् ; म्रदिमा, मृदुत्वम्, मृदुता, मार्दवम् ॥२०॥
वर्ण-दृढादिभ्यष्ट्यण् च वा ।७११५९॥ वर्णविशेषार्थेभ्यो दृढादेश्च तस्य भावे ट्यण् इमन् च वा स्यात् । शौक्लयम्, शुक्लिमा, [शुक्लत्वम्,] शुक्लता ; शैत्यम्, शितिमा, शितित्वम्, शितिता, शैतम् ; दाढयम्, द्रढिमा, दृढत्वम्, दृढता ; वैमत्यम्, विमतिमा, विमतित्वम्, विमतिता, वैमतम् ।।२१।।
पति-राजान्त-गुणाङ्ग-राजादिभ्यः कर्मणि च १६०॥ पत्यन्तराजान्तेभ्यो गुणोऽङ्ग प्रवृत्तौ हेतुर्येषां तेभ्यो राजादेश्च तस्य भावे क्रियायां च ट्यण् स्यात् । आधिपत्यम्, अधिपतित्वम्, अधिपतिता ; आधिराज्यम्, अधिराजत्वम्, अधिराजता ; मौढ्यम्, मूढत्वम्, मूढता ; राज्यम्, राजत्वम्, राजता ; काव्यम्, कवित्वम्, कविता ।।२२।।
तदस्य सञ्जातं तारकादिभ्य इतः ।७१।१३८॥ तदिति स्यन्तेभ्य एभ्योऽस्येति षष्ठयर्थे इत: स्यात्, स्यन्तं सञ्जातं चेत् । तारकितं नभः, पुष्पितस्तरुः ।।२३।।
प्रमाणान्मात्रट ।७।१।१४०॥ त[दिति] स्यन्तात् प्रमाणार्थात् षष्ठ्यर्थे मात्रट् स्यात् । आयाम: प्रमाणम् । जानुमात्रं जलम्, तन्मात्री भूः ।।२४।।
वोर्ध्वं दघ्रट द्वयसट् ।७।१।१४२॥ ऊर्ध्वं यत् प्रमाणं तदर्थात् स्यन्तात् षष्ठयर्थे वैतौ स्याताम् । ऊरुदनम्, ऊरुद्वयसम्, ऊरुमात्रं जलम् । ऊर्ध्वमिति किम् ? रज्जुमात्री भूः ॥२५||
मानादसंशये लुप् ।७१।१४३॥ मानार्थ एव साक्षाद् य: प्रमाणशब्दो हस्त-वितस्त्यादिर्न तु रज्ज्वादिः, तस्मात् प्रस्तुतस्य मात्रडादेरसंशये गम्ये लुप् स्यात् । हस्तः, वितस्तिः । मानादिति किम् ? ऊरुमात्रं जलम् । असंशय इति किम् ? शममात्रं स्यात् ।।२६।।
यत्-तत्-किमः सङ्ख्याया डतिर्वा ।७।१।१५०॥ संख्यारूपं यन्मानं तदर्थेभ्य एभ्य: स्यन्तेभ्यः षष्ठ्यर्थे संख्येये डतिर्वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org