SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञरहस्यवृत्तिविभूषितं तस्मै इति चतुर्थ्यन्तात् हितेऽर्थे यथाधिकृतं प्रत्यय: स्यात् । वत्सीयः, आमिक्ष्य:, आमिक्षीयः, युग्य: ।।११।। भोगोत्तरपदा-ऽऽत्मभ्यामीनः ।।४०॥ भोग उत्तरपदं यस्य तस्माद् आत्मनश्च तस्मै हिते ईन: स्यात् । मातृभोगीण:, आत्मनीनः ।।१२।। पञ्च-सर्व-विश्वाज्जनात् कर्मधारये ॥४१॥ पञ्चादेः पराज्जनात् कर्मधारयवृत्तेः तस्मै हिते ईन: स्यात् । पञ्चजनीनः, सर्वजनीनः, विश्वजनीनः । कर्मधारय इति किम् ? पञ्चानां जनाय हित: पञ्चजनीय: ।।१३।। परिणामिनि तदर्थे ।।१४४॥ चतुर्थ्यन्ताच्चतुर्थ्यन्तार्थार्थे परिणामिनि हेतावर्थे यथा[धि] कृतं प्रत्यय: स्यात् । अङ्गारीयाणि काष्ठानि, शङ्कव्यं दारु ।।१४।। तस्याऽर्हे क्रियायां वत् ।।१।५१॥ तस्येति षष्ठयन्तात् क्रियारूपे[ऽहें]ऽर्थे वत् स्यात् । राजवद् वृत्तं राज्ञः । क्रियायामिति किम् ? राज्ञोऽर्हो मणिः ।।१५।। स्यादेरिवे ।७।१५२॥ स्याद्यन्तादिवार्थे सादृश्ये क्रियार्थे वत् स्यात् । अश्ववद् याति चैत्र:, देववत् पश्यन्ति मुनिम् ।।१६।। तत्र।७१५३॥ तत्रेति सप्तम्यन्तादिवार्थे वत् स्यात् । स्रुघ्नवत् साकेते परिखा ॥१७|| तस्य ।७।११५४॥ तस्येति षष्ठयन्तादिवार्थे वत् स्यात् । चैत्रवद् मैत्रस्य भूः ।।१८।। भावे त्व-तल् ॥१५॥ षष्ठयन्ताद् भावे एतौ स्याताम्, शब्दप्रवृत्तिहेतुर्गुणो भावः । गोत्वम्, गोता ; शुक्लत्वम्, शुक्लता ।।१९।। पृथ्वादेरिमन् वा ७१५८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy