SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ १८६ स्वोपज्ञरहस्यवृत्तिविभूषितं प्रभूतादिभ्यो ब्रुवति ॥६॥४॥४३॥ एभ्यो द्वितीयान्तेभ्यो ब्रुवत्यर्थे इकण् स्यात् । प्राभूतिकः, पार्याप्तिकः ।।१२।। समूहार्थात् समवेते ।६।४।४६॥ अस्माद् द्वितीयान्तात् समवेते[ऽर्थे इकण् स्यात् । सामूहिकः, सामाजिक: ||१३॥ पर्षदो ण्यः ।६।४।४७॥ अस्माद् द्वितीयान्तात् समवेते ण्य: स्यात् । पार्षद्यः ॥१४|| सेनाया वा।६।४॥४८॥ अस्माद् द्वितीयान्तात् समवेते] ण्यो वा स्यात् । सैन्यः, सैनिकः ।।१५।। धर्मा-ऽधर्माच्चरति ।६।४।४९॥ आभ्यां द्वितीयान्ताभ्यां चरत्यर्थे इकण् स्यात् । धार्मिकः, आधर्मिकः ।।१६।। षष्ठया धर्थे ।६।४।५०॥ षष्ठयन्ताद् धर्मादनपेते इकण् स्यात् । शौल्कशालिकम् ।।१७।। ऋनरादेरण।६।४॥५१॥ ऋदन्तानरादेश्च षष्ठचन्ताद् धर्येऽर्थेऽण् स्यात् । नारम्, नरस्य धर्म्यं नारम्, माहिषम् ।।१८।। तदस्य पण्यम् ।।४।५४॥ तदिति प्रथमान्ताद् विक्रेयार्थाद् अस्येति षष्ठयर्थे इकण् स्यात् । आपूपिक: ।।१९।। शिल्पम् ।६।४।५७॥ प्रथमान्तादस्येत्यर्थे इकण् स्यात्, तच्छिल्पं चेत् । नार्त्तिकः ।।२०।। प्रहरणम् ।६।४।६२॥ प्रथमान्तात् षष्ठयर्थे इकण् स्यात्, तत् प्रहरणं चेत् । आसिकः ।।२१।। तत्र नियुक्ते ।६।४।७४॥ तत्रेति सप्तम्यन्ताद् नियुक्तेऽर्थे इकण् स्यात् । शौल्कशालिकः ।।२२।। संख्यादेश्वाऽऽर्हदलुचः ।६।४।८०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy