SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् अदर्थमभिव्याप्य या प्रकृतिर्वक्ष्यते तस्याः केवलायाः संख्यापूर्वायाश्च वक्ष्यमाणः प्रत्ययः स्यादिति ज्ञेयम्, न चेत् सा लुगन्ता । चान्द्रायणिकः, द्वैचन्द्रायणिकः । चन्द्रायणं चरति [ ६ |४ |८२ ] इति इण् । अलुच इति किम् ? द्विशूर्पेण क्रीतं द्विशौर्पिकम् ||२३|| त्रिंशद-विंशतेर्डकोऽसंज्ञायामाऽर्हदर्थे | ६|४|१२९॥ आभ्यामा अर्हदर्थाद् योऽर्थो वक्ष्यते तस्मिन् डकः स्यात्, असंज्ञाविषये । त्रिंशकम्, त्रिंशकः, विंशकम्, विंशकः । असंज्ञायामिति किम् ? त्रिंशत्कम् ||२४|| सङ्ख्या-डतेश्वाऽशत्-ति-ष्टेः कः |६|४|१३०॥ शदन्त-त्यन्त-ष्ट्यन्तवर्जसंख्याया डत्यन्तात् त्रिंशद्विंशतिभ्यां चाऽऽर्हदर्थे कः स्यात् । द्विकम्, कतिकम्, त्रिंशत्कम्, विंशतिकम् । अशत्तिष्टेरिति किम् ? चात्वारिंशत्कम्, साप्ततिकम्, षाष्टिकम् ||२५|| शूर्पाद् वाऽञ् |६|४|१३७॥ आऽर्हदर्थेऽञ्वा स्यात् । शौर्पम्, शौर्पिकम् ||२६|| विंशतिकात् |६|४|१३९॥ आऽर्हदर्थेऽञ् स्यात् । वैंशतिकम् ||२७|| द्विगोरीनः | ६ |४| १४०॥ १८७ विंशतिकान्ताद् द्विगोराऽर्हदर्थे ईनः स्यात् । द्विविंशतिकीनम् ||२८|| अनाम्न्यद्विः प्लुप् | ६|४|१४१ ॥ द्विगोराऽर्हदर्थे जातस्य प्रत्ययस्य पित् लुप् स्यात्, न तु द्विः अनाम्नि । द्विकंसम् । अनाम्नीति किम् ? पाञ्चलोहित (तिक ) म् । अद्विरिति किम् ? द्विशूर्पण क्रीतं द्विशौर्पिकम् ||२९|| मूल्यैः क्रीते |६|४|१५०॥ मूल्यार्थाट्टान्तात् क्रीतेऽर्थे यथोक्तं प्रत्ययाः स्युः । प्रास्थिकम्, त्रिंशकम् ||३०|| तस्य वापे |६|४|१५१॥ तस्येति षष्ठ्यन्ताद् वापेऽर्थे यथोक्तं प्रत्ययाः स्युः । प्रास्थिकम् ||३१|| तमर्हति । ६।४।१७७| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy