SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ आ पादान्ताद् यदनुक्तं स्यात् तत्राऽयमधिकृतो ज्ञेयः || १ || तेन जित-जयद् - दीव्यत् खनत्सु |६|४|२|| श्रीसिद्धहेमचन्द्रशब्दानुशासनम् [ षष्ठाध्याये चतुर्थः पादः ] इकण् |६|४|१॥ तेनेति टान्तादेष्वर्थेष्वकण् स्यात् । आक्षिकम्, आक्षिकः, आम्रिकः ||२॥ संस्कृते |६|४|३|| टान्तात् संस्कृते इकण् स्यात् । दाधिकम्, वैधिकः ॥ ३॥ संसृष्टे |६|४|५॥ टान्तात् संसृष्टेऽर्थे इकण् स्यात् । दाधिकम् ||४|| तरति |६|४|९|| टान्तात् तरत्यर्थे इकण् स्यात् । औडुपिकः ||५|| नौ- द्विस्वरादिकः | ६|४|१० ॥ नावो द्विस्वराच्च टान्तात् तरत्यर्थे इकः स्यात् । नाविका, चरति |६|४|११|| 11211 टान्ताच्चरतीकण् स्यात् । हास्तिकम्, दाधिकः ||७|| ओजस् - सहो - Sम्भसो वर्तते | ६|४|२७|| एभ्यष्टान्तेभ्यो वर्तते इत्यर्थे इकण् स्यात् । औजसिकः, साहसिकः, आम्भसिकः १८५ बाहुका ||६|| Jain Education International तं प्रत्यनोर्लोमेप- कूलात् ॥६॥४॥२८॥ तमिति द्वितीयान्तात् प्रत्यनुपूर्वलोमेपकूलान्ताद् वर्तते इत्यर्थे इकण् स्यात् । प्रातिलोमिकः, आनुलोमिकः, प्रातीपिकः, आन्वीपिकः, आनुकूलिकः ||९|| परदारादिभ्यो गच्छति |६|४|३८|| एभ्यो द्वितीयान्तेभ्यो गच्छत्यर्थे इकण् स्यात् । पारदारिकः, गौरुदारिकः ॥ १० ॥ सुस्रातादिभ्यः पृच्छति |६|४|४२ ॥ एभ्यो द्वितीयान्तेभ्यः पृच्छत्यर्थे इकण् स्यात् । सौस्नातिकः, सौखरात्रिकः ॥११॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy