SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ १८४ स्वोपज्ञरहस्यवृत्तिविभूषितं तस्येदम् ।६।३।१६०॥ तस्येति षष्ठयन्ताद् इदमित्यर्थे यथाविहितं प्रत्ययाः स्युः । माथुरम्, दैत्यम्, कालेयम्, नादेयम्, पारीण:, भानवीयः ।।५२।। नटान्नृत्ते ज्यः ।६।३।१६५॥ नटात् तस्येदमर्थे नृत्ते ज्य: स्यात् । नाट्यम् ।।५३|| रथात् सादेश्च वोङ्गे++ ।६।३।१७५॥ रथात् केवलात् सपूर्वाच्च तस्येदमित्यर्थे रथस्य वोढरि अङ्गे एव च प्रत्ययः स्यात् । रथ्योऽश्व:, रथ्यं चक्रम्, द्विरथोऽश्वः, आश्वरथं चक्रम् ।।५४|| यः।६।३।१७६॥ रथात् केवलात् सादेश्च तस्येदमित्यर्थे य: स्यात् । रथ्यः, द्विरथः ॥५५।। तेन प्रोक्ते ।६।३।१८१॥ तेनेति टान्तात् प्रोक्ते यथाविहितं प्रत्ययाः स्यु: । भाद्रबाहवं शास्त्रम्, पाणिनीयम्, बार्हस्पत्यम् ।।५६।। उपज्ञाते ।६।३।१९१॥ प्रागुपदेशाद् विना वा ज्ञाते टान्ताद् यथाविहितं प्रत्यय: स्यात् । पाणिनीयं शास्त्रम् ।।५७|| कृते ।६।३।१९२॥ टान्तात् कृतेऽर्थे यथाविहितं प्रत्यया: स्युः । शैवो ग्रन्थः, सिद्धसेनीय: स्तव: ॥५८॥ __ अमोऽधिकृत्य ग्रन्थे ।६।३।१९८॥ द्वितीयान्तादधिकृत्य कृते ग्रन्थे यथाविहितं प्रत्यय: स्यात् । भाद्रः ।।५९।। भजति ।६।३।२०४॥ अमो भजत्यर्थे यथोक्तं प्रत्यय: स्यात् । स्रौघ्नः, राष्ट्रियः ॥६०॥ षष्ठस्य तृतीयः॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy