SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ १८३ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् जिह्वामूला-ऽङ्गुलेश्चयः ।६।३।१२७॥ आभ्यां सप्तम्यन्ताभ्यां मध्याच भवे ईय: स्यात् । जिह्वामूलीयः, अङ्गुलीय:, मध्यीयः ॥४२॥ वर्गान्तात् ।६।३।१२८॥ अस्मात् सप्तम्यन्ताद् भवे ईय: स्यात् । कवर्गीयो वर्णः ॥४३।। ईन-यौ चाशब्दे ।६।३।१२९॥ वर्गान्तात् सप्तम्यन्ताद् भवे एतावीयश्च स्युः, न तु शब्दे । भरतवर्गीणः, भरतवर्ग्य:, भरतवर्गीय: । शब्दे तु कवर्गीय: ।।४४।। शिक्षादेवाण् ।६।३।१४८॥ एभ्यो ग्रन्थार्थेभ्य: छन्दसश्च तस्य व्याख्याने तत्र भवे चाऽण् स्यात् । शैक्षः, .. आर्गयन:, छान्दसः ॥४५॥ तत आगते ।६।३।१४९॥ तत इति पञ्चम्यन्ताद् आगतेऽर्थे यथाविहितमण-एयणादय: स्युः । स्रौनः, गव्यः, नादेयः, ग्राम्य: ॥४६॥ विद्या-योनिसम्बन्धादकञ् ।६।३।१५०॥ विद्याकृतो योनिकृतश्च सम्बन्धो येषां तदर्थात् पञ्चम्यन्तादागतेऽर्थेऽकञ् स्यात् । आचार्यकम्, पैतामहकम् ।।४७।। पितुर्यो वा ।६।३।१५१॥ पितुर्योनिसम्बन्धार्थात् पञ्चम्यन्तादागतेऽर्थे यो वा स्यात् । पित्र्यम्, पैतृकम् ॥४८॥ प्रभवति ।६।३।१५७॥ पञ्चम्यन्तात् प्रागुपलभ्ये यथाविहितं प्रत्ययाः स्युः । हैमवती गङ्गा ।।४९।। ___ वैडूर्यः ।६।३।१५८॥ विडूरात् ततः प्रभवति व्यः स्यात् । वैडूर्यो मणिः ॥५०॥ त्यदादेर्मयट् ।६।३।१५९॥ एभ्यस्ततः प्रभवति मयट् स्यात् । तन्मयम्, भवन्मयी ।।५१।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy