SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासनम् १७७ लुब् बहुलं पुष्प-मूले ।६।२।५७॥ विकारा-ऽवयवार्थस्य पुष्पे मूले चार्थे प्रत्ययस्य बहुलं लुप् स्यात् । मल्लिका पुष्पम्, विदारी मूलम् । बहुलमिति किम् ? वारणं पुष्पम्, ऐरण्डं मूलम् ।।१९।। फले ।६।२।५८॥ विकारेऽवयवे वा फलेऽर्थे प्रत्ययस्य लुप् स्यात् । आमलकम् ॥२०॥ पितृ-मातुर्व्य-डुलं भ्रातरि ।६।२।६२॥ आभ्यां भ्रातर्यर्थे यथासङ्खचं व्य-डुलौ स्याताम् । पितृव्यः, मातुलः ॥२१॥ पित्रो महट् ।६।२।६३॥ पितृ-मातृभ्यां माता-पित्रोर्डामहट् स्यात् । पितामहः, पितामही ; मातामहः, मातामही ॥२२॥ निवासा-ऽदूरभव इति देशे नाम्नि ।६।२।६९॥ षष्ठयन्तान्निवासा-ऽदूरभवयोर्यथाविहितं प्रत्यय: स्यात्, तदन्तं चेद् रूढं देशनाम । शैवम्, वैदिशं पुरम् ।।२३।। तदत्राऽस्ति ।६।२।७०॥ तदिति प्रथमान्ताद्, अत्रेति सप्तम्यर्थे यथाविहितं प्रत्यय: स्यात्, प्रथमं(मान्तं) चेदस्तीति, प्रत्ययान्तं चेद् देशनाम । औदुम्बरं पुरम् ॥२४॥ तेन निर्वृत्ते च ।६।२।७१॥ तेनेति तृतीयान्तात् निर्वृत्तेऽर्थे यथाविहितं प्रत्यय: स्यात्, देशनाम्नि। कौशाम्बी ॥२५|| सुतङ्गमादेरिञ् ।६।२।८५॥ चातुरर्थिको देशनाम्नि स्यात् । सौतङ्गमि:++, मौनिचित्तिः ॥२६।। साऽस्य पौर्णमासी ।६।२।९८॥ प्रथमान्तादस्येति षष्ठयर्थे यथाविहितं नाम्नि प्रत्यय: स्यात्, प्रथमान्तं चेत् पौर्णमासी । पौषो मासोऽर्द्धमासो वा ।।२७|| देवता ।६।२।१०॥ १. “मुनेरिव चित्तमस्य' इति लघुवृत्तौ J2 टिप्पणे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy