SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ १७६ वात्या ||९|| स्वोपज्ञरहस्यवृत्तिविभूषितं ग्राम-जन-बन्धु-गज-सहायात् तल् |६|२|२८|| एभ्यः समूहे +तल् स्यात् । ग्रामता, जनता, बन्धुता, गजता, सहायता ॥१०॥ पुरुषात् कृत-हित-वध-विकारे चैयञ् ॥६।२।२९ ॥ एषु समूहे च पुरुषादेयञ् स्यात् । पौरुषेयो ग्रन्थः, पौरुषेयं पथ्यम्, वधो विकारो वा, पौरुषेयः समूहः ||११|| विकारे ||६|२|३०|| षष्ठ्यन्ताद् विकारे यथाविहितं प्रत्ययाः स्युः । आश्मनः ||१२|| प्राण्यौषधि - वृक्षेभ्योऽवयवे च |६| २|३१|| एभ्यः षष्ठ्यन्तेभ्यो विकारेऽवयवे च यथाविहितं प्रत्ययाः स्युः । कापोतं सक्थि मांसं वा, दौर्बं काण्डं भस्म वा, एवं बैल्वम् ॥१३॥ हेमादिभ्योऽञ् ॥६।२।४५॥ पौरुषेयो एभ्यो यथायोगं विकारेऽवयवे चाऽञ् स्यात् । हैमी यष्टिः, राजतः ||१४|| अभक्ष्या-ssच्छादने वा मयट् | ६ | २|४६ ॥ षष्ठ्यन्ताद् भक्ष्या-ऽऽच्छादनवर्जे यथायोगं विकारेऽवयवे च मयड् वा स्यात् । भस्ममयम्, भास्मनम् । अभक्ष्या-ऽऽच्छादन इति किम् ? मौद्रः सूपः, कार्पासः पटः ||१५|| एकस्वरात् |६|२|४८॥ अस्माद् भक्ष्या-ऽऽच्छादन [वर्जे] विकारेऽवयवे च नित्यं मयट् स्यात् । वाङ्मयम् ||१६|| Jain Education International गोः पुरीषे | ६ |२|५०|| गोः पुरीषेऽर्थे मयट् स्यात् । गोः पुरीषं गोमयम्, पयस्तु गव्यम् ||१७|| ह्योगोदोहादीनञ् हियङ्गुश्वास्य | ६ | २|५५ || अस्माद् विकारे नाम्नि ईनञ् स्यात्, तद्योगे च प्रकृतेर्हियङ्गुः । हैयङ्गवीनं नवनीतं घृतं वा । नाम्नीत्येव, ह्योगोदोहं तक्रम् ||१८|| For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy