________________
श्रीसिद्धहेमचन्द्रशब्दानुशासनम्
[षष्ठाध्याये द्वितीय: पादः]
रागाट्टो रक्ते ।६।२।१॥ रज्यते येन कुसुम्भादिना तदर्थात् तृतीयान्ताद् रक्तमित्यर्थे यथाविहितं प्रत्यय: स्यात् । कौसुम्भं वासः ॥१||
उदितगुरोर्भाद् युक्तेऽब्दे ।६।२।५॥ उदितो बृहस्पतिर्यत्र नक्षत्रे तदर्थाट्टान्ताद् युक्तेऽब्दे यथाविहितं प्रत्यय: स्यात् । पौषं वर्षम् । तिष्यपुष्ययोर्भाणि [२।४।९०] इति यलुक् ॥२॥
चन्द्रयुक्तात् काले, लुप् त्वप्रयुक्ते ।६।२।६॥ चन्द्रेण युक्तं यन्नक्षत्रं तदर्थाट्टान्ताद् युक्ते कालेऽर्थे यथाविहितं प्रत्यय: स्यात्, अप्रयुक्ते तु कालार्थे लुप् स्यात् । पौषमहः, अद्य पुष्यः ॥३॥
षष्ठयाः समूहे।६।२।९॥ षष्ठयन्तात् समूहेऽर्थे यथाविहितं प्रत्ययाः स्युः । चाषम्, स्त्रैणम् ।।४||
गोत्रोक्ष-वत्सोष्ट्र-वृद्धा-ऽजोरभ्र-मनुष्य-राज-राजन्य-राजपुत्रादकञ् ।६।२।१२॥
गोत्रप्रत्ययान्तादुक्षादेश्व समूहेऽकञ् स्यात् । गार्गकम्, औक्षकम्, वात्सकम्, औष्ट्रकम्, वार्द्धकम्, आजकम्, औरभ्रकम्, मानुष्यकम्, राजकम्, राजन्यकम्, राजपुत्रकम् ।।५।।
केदाराण्ण्यश्च ।६।२।१३॥ केदारात् समूहे ण्योऽकञ् च स्यात् । कैदार्यम्, केदारकम् ।।६।।
कवचि-हस्त्यचित्ताच्चेकण् ।६।२।१४॥ कवचि-हस्तिभ्यामचित्तार्थात् केदाराच्च समूहे इकण् स्यात् । कावचिकम्, हास्तिकम्, आपूपिकम्, कैदारिकम् ।।७।।
गो-रथ-वातात् त्रल्-कटयलूलम् ।६।२।२४॥ एभ्य: समूहे यथासङ्ख्यमेते स्युः । गोत्रा, रथकट्या, वातूलः ।।८।।
पाशादेश्व ल्यः ।६।२।२५॥ अस्माद् गवादेश्च समूहे ल्य: स्यात् । पाश्या, तृण्या, गव्या, रथ्या,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org