SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ १७४ राजा, शेषादकञ् ॥२९॥ स्वोपज्ञरहस्यवृत्तिविभूषितं शकादिभ्यो द्रेर्लुप् । ६।१।१२०॥ एभ्यः परस्य द्रिसंज्ञस्य लुप् स्यात् । शको राजाऽपत्यं वा, एवं यवनः ॥ ३० ॥ बहुष्वस्त्रियाम् ।६।१।१२४॥ द्रयन्तस्य बह्वर्थस्य यो द्रिस्तस्याऽस्त्रियां लुप् स्यात् । पञ्चाला राजानोऽपत्यानि वा । अस्त्रियामिति किम् ? पाञ्चाल्यः ||३१|| यस्कादेर्गोत्रे ।६।१।१२५॥ एभ्यो यः प्रत्ययस्तदन्तस्य बहुगोत्रार्थस्य यस्कादेर्यः स प्रत्ययस्तस्याऽस्त्रियां लुप् स्यात् । यस्काः, लह्या: । गोत्र इति किम् ? यास्का: छात्राः ||३२|| यञञोश्यापर्णान्त गोपवनादेः | ६ | १|१२६ ॥ - यञञन्तस्य बहुगोत्रार्थस्य यः स प्रत्ययस्तस्याऽस्त्रियां लुप् स्यात्, न तु श्यापर्णान्तेभ्यो गोपवनादिभ्यः । गर्गाः, विदाः । अश्यापर्णेत्यादि किम् ? गौपवना: ॥३३॥ भृग्वङ्गिरस्- कुत्स - वशिष्ठ गोतमा - ऽत्रेः । ६।१।१२८॥ एभ्यो यः प्रत्ययस्तदन्तस्य बहुगोत्रार्थस्य यः स प्रत्ययस्तस्याऽस्त्रियां लुप् स्यात् । भृगवः, अङ्गिरसः, कुत्सा:, वशिष्ठाः, गोतमाः, अत्रयः ||३४|| न प्राजितीये स्वरे | ६ | १|१३५ ॥ Jain Education International गोत्रे उत्पन्नस्य या लुबुक्ता सा प्राग्जितीयेऽर्थे यः स्वरादिस्तद्धितः तद्विषये न स्यात् । गार्गीयः, आत्रेयीयाः । प्राग्जितीय इति किम् ? अत्रीयः । स्वर इति किम् ? गर्गमयम् ||३५|| षष्ठस्य प्रथमः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001342
Book TitleHemchandrashabdanushasanam
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherHemchandracharya Jain Gyanmandir Patan
Publication Year1995
Total Pages449
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy